________________
प्रथम-स्तव:
भवभवविभवपराभवहेतो ! गिरिकुलकेतो ! भक्तहिते!।। नानाविधवृजिनोत्करवारिणि ! करुणासारिणि ! शान्ततरे ! । सहसोत्सादितसाधकविघ्ने ! श्रद्धानिध्ने ! सुखकलिके ! । जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि भक्तिवशे!॥६॥ पश्चात् वैखर्यात्मना परिणतायां भवति आविर्भवत् बहिरुल्लसत् यत् अकारादिक्षकारान्तो वर्णराशिः तदिदं शब्दब्रह्मतया शब्दात्मकेन ब्रह्मस्वरूपेण खलु गेयं, गातुं योग्यम् । गेयमित्यत्र 'भव्यगेयप्रवचनीय-' (पा.सू. ३.४.६८) इति कर्तरि यत् । खम् आकाशः शून्यस्थानं, तद्वत् अमेयं, मातु परिच्छेत्तुं योग्यं मेयं, तन्न भवत्ति इत्यमेयं परिच्छेदानहम् । किमपि वाचातिक्रान्तम् । धनम् व्यापकम् । पञ्चाशल्लिपिरिति त्रिषष्टेरप्युपलक्षणम् । तथाच शारदातिलकस्थं पद्यम् -
'नित्यानन्दवपुनिरन्तरगलत्पश्चाशदर्णैः क्रमात् ।' इति । तथा-'पश्चाशल्लिपिभिविभक्तमुखदो पन्मध्यवक्षस्थलम् ।'
'पञ्चाशद्वर्णभेदैविहितवदनदोः पादयुक्कुक्षिवक्षः।' इत्येवमादय कविकुलालापाश्चापि द्रष्टव्याः। पञ्चाशत् लिपिः लेखनं तस्य भेदै. प्रकार. विचित्रं विविधवैचित्रीसमुद्भासितं, वाड्मयमात्रम् हे परे । त्वम् असि । पराया एव सर्वासां वाचामन्तःसाररूपत्वादिति तत्त्वम् । लघ्वाचार्या अपि
'शब्दानां जननीत्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽयमी
सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ।। ६-भवः ससारः, तत्र भवः उत्पन्नो यो विभवः, ऐश्वर्य पराभवः अनादरश्च तस्य हेतुः हेतुभूता, तत्संबुद्धिः। अनुकूलप्रतिकूलवेदनीययोः सुखदुःखयोस्त्वमेव केवलं बीजभूतेत्याशयः । गिरीणां कुलं वंशः तस्य केतुः, पताका । लोकोत्तरकार्यसंपादनप्रवृत्ततया वशप्रतिष्ठाकारिणीत्यर्थः । भक्तहिता भक्तेभ्यः सपर्यापरायणेभ्यो हिता, पथ्यभूता । नानाविधं वहुप्रकृतिकं यत् वृजिनं अंह, तस्य य उत्करः राशिः तस्य वारिणी, उत्सारिणी तत्सबुद्धिः । करुणायाः सारिणी प्रसारिणी तत्संबुद्धिः । 'सृ' धातोणिनि. । शान्ततरा अतिशयेन शान्ता | अतिशायने तरप् । सहसोत्सादितसाधकविघ्ने सहसा सद्य एव उत्सादितं प्रतिहतं साधकस्य साधनभाजो विनम् चिचविक्षेपरूपं वा अमङ्गलं अनया । श्रद्धया विश्वासातिशयेन निन्ना अधीना