________________
प्रथमस्तवः।
इत्यादिना सौन्दर्यलहर्या कामकलास्वरूपं प्रतिपादितम् । यत्फलं च 'हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीमित्यादिना तत्रैव स्पष्टमभिहितम् । कमनीयत्वाद्वा काम. । तथा च कालिकापुराणे
जगत्सु कामरूपत्वे त्वत्समो नैव विद्यते ।
अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ।।' इति । जगत्सिसृक्षावानीश्वरः कामपदवाच्यः । श्रूयते च वृहदारण्यकोपनिषदि
'आत्मैवेदमग्र आसीत् एक एव सोऽकामयत...... इत्यादिना - एतावान्दै कामः' इत्यन्तम् । तदिदं कामकलास्वरूपं गुरुमुखैकवेद्यामति इहैवोपरम्यते । तनो शरीरस्य शोभा कान्तिः तया कम्पिता शम्पा विद्यु दनयेति तत्संबोधनम् । लसन्ती अनुकम्पा दयाभावो यस्याः सा । कान्तीनां भासां निधिः, तत्संबुद्धिः । प्रकाशनिधानभूतामिति तात्पर्यम् । जित. स्वायत्तीकृतः कामः अनझोऽनया । जनित. पुनरुज्जीवितः कामोऽनया । भण्डासुरहननोत्तरं ब्रह्मादिभिर्देवैः प्रार्थितया ललिताम्बया पुनर्मन्मथो जीवित इति ब्रह्माण्डपुराणोक्ता कथात्र गर्भीकृता द्रष्टव्या । धूर्जटेमहेश्वरस्य वामे वामानविलसनशीले । वामगते वामं सुन्दरं गतगमनं यस्याः सा तत्संवुद्धिः । जालन्धरपीठस्य प्रोड्याणादिप्रमुखशक्तिपीठचतुष्टये ललामभूतस्य विलासिनि अलंकृते | | जालन्धरपीठं पीठान्तरेभ्योऽम्बायाः प्रियतरमिति भावः । 'पञ्चाशत्पीठरूपिणी' इति ललितासहस्रनामस्तवः । किमियता-अस्या एव विवर्तभूतं परिणामभूत वा सकलमिद दृश्यजातमेव । तत्रानन्तवैचित्र्यचित्रितेन विशेषेण वर्तनमेव विवर्तो नतु कश्चित् पारिभाषिकः । मिथ्यात्वमात्रानुप्राणितव्यवहारेण आप्रलयं विश्ववैशिष्ट्यचमत्कारासंभवात् । परिणामो वा आस्ताम् । स च परा-पश्यन्ती-मध्यमा-वैखरीलक्षणः शाब्द. । शिवादिधरण्यन्तः षट्त्रिंशत्तत्त्वरूप आर्थ । स एष वैशेपिकसप्तपदा नैयायिकपोडशपदार्थीव सांख्यस्य योगस्य वा तत्त्वानामुपवृहणभूतो वस्तुतस्तु सारभूत एव परीक्षणीयस्तैर्थिकै. । बिन्द्वादिभूपुरान्तस्तु चाक्रः । अयमेव यान्त्र. परिणाम इत्यपि व्यपदिश्यते । शारीरो याजमानस्त्वत्रैवान्तर्भवति । उक्तच
___'तस्यां परिणतायां तु न किञ्चिदवशिष्यते ।' इति । इह - 'यद्यद्विभूतिमत्सत्त्वं श्रीमर्जितमेव चा !' इत्यादयो गीताद्यु क्तयोऽप्युपास्तिधिया संनिहिता एव परीक्षणीया इत्यलं पल्लवितेन । दुःखस्य सांसारिकस्य संतापस्य विनाशिनी उच्छेदकी । 'तदत्यन्तविमोकोऽपवर्ग' इति तत्रभवान्