________________
दुर्गा-पुष्पाञ्जलिः
प्रथम-स्तवः। जय जगदम्ब ! कदम्बविहारिणि ! मङ्गलकारिणि ! कामकले ! जय तनुशोभाकम्पितशम्पे ! लसदनुकम्पे कान्तिनिधे ! । जय जितकामेऽपि जनितकामे ! धूर्जटिवामे । वामगते !
जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि ! भक्तिवशे! ॥१॥ विष्णुः । स एव प्रकृतेस्तमोगुणमवलम्ब्य यदा संहरति तदा रुद्रः। तदेवमसौ महतोऽस्य जगन्नाट्यसर्गस्य प्रवर्तयिता सूत्रधार स्वेच्छया स्वभित्तौ विश्वमुन्मीलयन नानाभूमिकां प्रतिपन्नोऽपि परमार्थत एकत्वमेवावगाहत इति चतुरस्रम् | यान् ब्रह्मादीन् समवायिनी इव समवायो नित्यसंबन्धः सोऽस्ति अस्या.। तादात्म्यभावमुपगता. शक्तिपदवाच्याः ब्राह्मी-वैष्णवी-रौद्रीपदाभिलप्या. आश्रयन्ते आश्रयीभूय प्रथन्ते । इहेदं रहस्यम् - एकः खलु परमेश्वर इति सर्वतन्त्रसिद्धान्त. । यत्त्वस्य प्रादुर्भावावताराभ्यां अनेकत्ववर्णनं तत्सकलं सातिशयं प्रतिपत्तव्यम् । अस्यैव पुनब्रह्म-विष्णु-रुद्रपदव्यपदेश्या जगदुत्पत्ति-स्थिति-संहारकृतः प्रधानशक्तयः। कथामर्यादया तु ब्रह्मा-ब्रह्माणीत्येवमादि दाम्पत्यभावमधुराः प्रकाराः पुराणेतिहासेषु सुव्यक्ता एवेति शम् ।
इति परमार्थाकलनम्।
प्रथम-स्तवः १-जयेति यथायथं सर्वत्र योजनीयम् । जगदम्वेति संवोधनं स्वाभिमुखीकरणार्थम् । कदवे कदंबकुसुमे विहरति तच्छीला कदम्बविहारिणी । भगवत्याः कदम्वप्रियत्वमागमेपु सुप्रसिद्धम् । 'कदम्बकुसुमप्रियेति ललितासहस्रनामस्तवे । मगलं कल्याणं करोति इति तथाभूता । कामकले कामः यावन्मनोरथमानं तस्य कला प्रकाशभूमिका । अथवा कामः कलाशरीरघटको विन्दुरग्नीपोमाख्यो रविः । तदुक्त कामकलाविलासे
'विन्दुरहकारात्मा रविरेतन्मिथुनसमरसाकारः ।
काम. कमनीयतया कला च दहनेन्दुविग्रही विन्दू ।। आचार्यशङ्करभगवत्यादैरपि
'मुखं बिन्टुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्ध ध्यायेद् यो हरमहिपि । ते मन्मथकलाम् ।' १-चिदानन्दघनस्वात्मपरमार्थानुचिन्तनमिति यावत् ।