________________
परमार्थाकलनम् प्रथाकथाकारकलामुपेतो, ब्रह्मा च विष्णुश्च ततश्च रुद्रः । यानाश्रयन्ते समवायिनीव, सरस्वती श्रीरमलापि गौरी ॥५॥
॥ इति परमार्थाकलनम् ।। डन्ताल्लट् । यस्य महेश्वरस्य विशिष्य प्रतिमानभूता प्रतिविम्वभूता 'प्रतिमानं प्रतिविम्बं प्रतिमा प्रतियातना प्रतिच्छाये'त्यमरः । ब्रह्मादीनां ब्रह्मविष्णुरुद्राणां वृन्दारकः यूथपतिः, तस्य भावः । वृन्दं ऋच्छति इति वृन्दारः स एव वृन्दारकः । स्वार्थे क. । ब्रह्मविष्णुरुद्राणामप्यतिशयभूमित्वरूपा महेश्वरता अस्ति स 'अहम्' अहंप्रत्ययप्रत्ययी प्रत्येतव्यः । अतएव अजडप्रमातृसिद्धौ
इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिविमर्शः सोऽहमित्ययम् ।।' इति ।
तथा-'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।। इति चोपन्यस्तम् । इदमत्र तात्पर्यम् - 'ब्रह्मविष्णुशिवादीनां यः परः स महेश्वरः इति योगवार्तिकम् । 'यो ब्रह्माणं विदधाति पूर्वम्-' इति श्वेताश्वतरश्रुतिश्च । महेश्वरो हि प्रकाशात्मा, प्रकाशश्च विमर्शस्वभावः । यदि निर्विमर्शः स्यादनीश्वरो जडश्च प्रसज्येत । स एवात्मा स हि अहप्रत्ययप्रत्ययी। अहंप्रत्ययश्च धूमेन धूमध्वज इव 'इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा-' (पा.सू.५. २. ६३) इति पाणिनिसूत्रव्युत्पादितेन जडचेतनभेदनिबन्धनेनेन्द्रियेण इन्द्र
आत्मा अनुमीयते । आत्मा हि इच्छाशक्तिसंश्लिष्टोऽन्तःकरणादिशाली यथावैभवं व्यवहारभूमिपु प्रवर्तते । अन्यत्रापि
ॐ नमोऽहं पदार्थाय लोकानां सिद्धिहेतवे।
सच्चिदानन्दरूपाय शिवाय परमात्मने ।।' इत्येवमादि पठ्यते । ५- प्रथेति । प्रथन प्रथा ख्यातिः, सैव कथा तस्या आकारो रूपाधान तस्य कला विभूतिमुपेत' कथाशरीरात्मना प्रथित इत्याशय. । भगवतः पाराशर्यस्य कवित्वविभ्रमभूमिरियं कथा पुराणरूपतां दधती सुप्रसिद्धा तावत् । अयमत्र ब्रह्मादीनां सर्जनक्रम - ___ ईश्वरो यदा स्वस्मात् पृथगिव भासमानं विश्वं स्वमाययैव प्रकृतिसंज्ञया रजोगुणमवलम्व्य महदादिक्रमेण पृथगेव करोति तदा ब्रह्मा (स्रष्टा) इत्युच्यते । तत्रैवान्तर्यामित्वेन प्रकृते. सत्त्वगुणमवलम्ब्य अनुप्रविश्य यदा नियमयति तदा