________________
दुर्गा-पुष्पाञ्जलिः बोभूयते सर्वचराचराणामाधारभूमिः खलु यो हि भूमा । विशिष्य यस्य प्रतिमानभूता ब्रह्मादिवृन्दारकतास्ति सोऽहम् ॥४॥ इति वेदान्तसूत्रे ब्रह्मशब्देन, वेदे मन्त्रब्राह्मणलक्षणे, आगमे प्रत्यभिज्ञादिदर्शने च 'ईश्वर' शब्देन गीयते प्रख्याप्यते, तम्, एकदेवं एकं असहायं अद्वितीयं वा देवम् । चिदैक्येन स्फुरणात् भेदस्य अनुपपत्तः। तथा च श्वेताश्वतरोपनिपदि
‘एको देव. सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवास. साक्षी चेता केवलो निगुणश्च ।। अन्या अप्येवंजातीयका. पर.शता श्रु तय उदाहार्याः । तदेवं ईष्टे इतीश्वरापरपर्याय वृहतीति ब्रह्म व देवतानामेका देवता । ततश्च ईश्वर-ब्रह्म-आत्मेति नार्थान्तरमिति भावः । परमार्थतत्त्वं, तत्वदृशा विचार्यमाणे सर्वतत्वानामधिष्ठानभूतं प्राणप्रदमिति यावत् । आत्मानं अनवच्छिन्नचिदानन्दैकघनं श्रात्मनि अवधारयामि परामृशामि | अहमेव स्वात्ममहेश्वरस्वभावो विश्वात्मना सर्वदा सर्वत्र स्फुररामीत्याशय । अत्र च शिवसूत्रमवतरति - 'चैतन्यमात्मा' ( शिवसूत्र०१.१.) चैतन्य चिति', चेतन श्रात्मा इति तु राहोः शिरः इतिवत् काल्पनिकम् । वस्तुतस्तु एकमेव सर्वम् । चितिक्रिया प्रकाशाभिमर्श', तस्य भावः चैतन्यम् स्वातन्त्र्यम् । तदुक्तम् -
____ 'परमात्मस्वरूपं तु सर्वोपाधिविवर्जितम् ।
चैतन्यमात्मनोरूपं सर्वशास्त्रेषु पठ्यते ।। इति । एवमिह एकस्मिन्नपि शिवशत्त्यात्मके चिदानन्दमात्रपरमार्थे प्रकाशविमर्शरूपे चा तत्त्वे संविद्वैतवादे शक्तिप्राधान्येन व्यवहार , ईश्वराद्वैतवादे शक्तिमत्प्राधान्येनेति विशेपोऽग्याकलनीय ।
४- वोभूयत इति । खलु इति वाक्यालङ्कारे अध्ययम् । भूमा परमात्मा । वैपुल्यवाचकात् बहुशब्दात् पृथ्वादित्वादिमनिचि 'वहोर्लोपो भू च बहोः' (पासू० ६. ४. १५८ ) इति प्रकृतेभू भाव प्रत्ययादेरिकारस्य लोपश्च । 'भूमा संप्रसादादध्युपदेशात् ।' धर्मोपपत्तेश्च ।' (ब्रह्मसू० १ ३.८-६) इति भूमाधिकरणस्थ ब्रह्मसूत्रमप्यनुसन्धेयम । सर्वचराचराणाम् , सर्वेषां रुद्रक्षेत्रज्ञादिप्रमातृप्रमेयरूपाणां चराचराणां जडाजडस्वभावानां अाधारभूमि विश्रान्तिस्थानं अध्यक्षत्वेनानुप्रविष्टमित्यर्थ । चोभूयते पुन:पुनरतिशयेन वा भवति । भवतेर्य