________________
परमार्थाकलनम् उपास्महे सिद्धि-समृद्धि-सम माहेश्वरं ज्योतिरनन्तशक्ति । यस्मात् परस्मादिव शासनस्य विश्वस्य जन्म-स्थिति-भङ्गमाहुः ॥२॥ यो गीयते ब्रह्मपदेन सूत्रे वेदागमेऽपीश्वरशब्दितेन । तमेकदेवं परमार्थतत्वमात्मानमात्मन्यवधारयामि ॥३॥
तेन शब्दार्थचिन्तासु न साऽवस्था न य शिव ।
भोक्तव भोग्यभावेन सदा सर्वत्र संस्थितः ।।' इत्यादिना सिद्धान्तितः साधु संगच्छते । तत्प्रकारस्त्वेवंरूपः- संवित्स्वरूपस्य सर्वप्रकाशकस्य प्रभेव प्रकाशनशक्तिर्या वर्ण-पद-वाक्याजीवभूता अन्त संजल्परूपा वाक् , सा एव पदार्थरूपतया वहिर्भवतीति प्रबुद्धहृदयानामनुभवसाक्षिकम् । भोग्यं हि नाम प्रमेयमुच्यते । तच्च सत्यपि तदुपसर्जनवृत्तित्वे प्रमाणशरीरान्नातिरिच्यते । तस्मान्न भोग्य भोक्तुरतिरिक्तं किमपि पृथक्तया परिगणनीयं भवितुमर्हति । सर्ववस्तूनां अन्ततः प्रमातर्येव विश्रान्ते । अतश्च अनुभवितैव अनुभाव्यतया आहोस्वित् निष्कृष्य निरूप्यमाणे ज्ञानमेव वा ज्ञेयतया सदा सर्वत्र प्रथत इति संक्षेपः।
२-उपास्महे इति । सिद्धयः, स्वात्ममहेश्वरस्य विभूतिस्पन्दा, अणिमाद्या अष्टमहासिद्धयश्च, तासां समृद्धिः हृदयहारित्वोत्कर्षलक्षणं सौभाग्यम् । तस्य सद्म उत्पत्तिस्थानम् । तत्तत्साधकजनहृदयोल्लासरूपाः चिदानन्देच्छाज्ञानक्रियानुभवस्मृत्यपोहनात्मकाः धर्मा एव ब्राह्मयादिमात्रष्टकाधिष्ठिताः सन्तो बहिविभूतिरूपतामापद्यन्त इत्यासामष्टकत्वमाख्यायते । माहेश्वरं ज्योतिः स्वसंवित् । प्रकाशैकवपुषः सर्वभूतात्मन. परमेश्वरस्य स्वभावभूतो योऽनवच्छिन्नोऽहविमर्शः स ज्योति.पदेन अभिधीयते । यथोक्तमन्यत्र- 'स्वसंवित् त्रिपुरा देवी ।' इति 'स्वरूपज्योतिरेवान्त. परावागनपायिनी।' इति च ।
अनन्तशक्ति, अनन्ता. अनवच्छिन्नाः संख्यातुमशक्या , शक्तयः इच्छाज्ञान-क्रियाशक्तीनां पल्लवभूता. ब्राह्मथाद्याः शब्दराशिसमुत्स्था यस्य तत् । उपास्महे स्वहृदयोन्मुख्येन परामृशाम । उपोपसृष्टादास् धातोः कर्तरि लट् । यस्मात् यत. परस्मात् अन्यस्मादिव शासनस्य स्वोल्लासरूपस्य विश्वस्य सृष्टि-स्थिति-सहाराः प्रवृत्त्युन्मुखाः जायन्ते । .. ३-यो गीयत इति । यः भगवतः पाराशर्यस्य 'अथातो ब्रह्मजिज्ञासा'