________________
दुर्गा-पुष्पाञ्जलिः तदेवं सच्चिदानन्दस्वरूपः स्वात्मैव परमेश्वर इति प्रतिष्ठितं भवति । उक्तञ्च आचार्य:
'सच्चित्सुखमयः शम्भुस्विरूपः सर्ववस्तुपु ।' स्वयंप्रकाशं अन्यानपेक्षप्रकाशैकरूपं चैतन्यमहेश्वरं विश्वप्रतिष्ठाभूमिमिति यावत् । तथा च प्रत्यभिज्ञाशास्त्रे
'प्रागिवार्थोऽप्रकाशः स्यात् प्रकाशात्मतया विना ।
न च प्रकाशो भिन्न. स्यादात्मार्थस्य प्रकाशता ।' गृणाति प्रकाशयति विश्वव्यवहारमिति गुरुः । सर्वानुग्राहक. स्वात्ममहेश्वर., तम् । आहस्म भगवान् पतञ्जलि'
'स पूर्वेषामपि गुरु' कालेनानवच्छेदात् ।' 'तत्र निरतिशय सार्वजबीजम् ।'
(योगदर्श० १. २४-२५) शिवसूत्रेष्वपि 'गुरुरुपाय' इति । आश्रितोऽस्मि शरीरादिकृत्रिमाहंकारगुणीकारेण तदेकसामरस्यभावमापन्नोऽस्मि । यस्मात् प्रकाशपरमार्थात् , विमर्शादिव इच्छाशक्तवैभवभरादिव, मेयमानं, मातु योग्यं मेयं विश्ववत्तिवेद्यवर्गः, तस्य मानं उत्कर्पकक्षाधिरोहणं, परादिसंविन्मयं, पराद्यनन्तशक्तित्रातरूपेण स्फुरत् संविदेकरूपत्वम् । ब्रह्ममयं जगदित्यादाविव अभेदार्थको मयट् । आविरस्ति जगदाद्यात्मना प्रकाशते । तथा चोक्तम् -
'चिदात्मैव हि देवोऽन्त स्थितमिच्छावशाद् बहिः ।
योगीव निरुपादानमर्थजात प्रकाशयेत् ॥ इहेदमनुसन्धेयम् - स्वस्वरूपानन्दानुभवतृप्तोऽपि परमेश्वरो यदा स्वात्मानमेव शब्दार्थात्मकप्रपञ्चात्मना विवर्तयितुमिच्छति तदा शिव इति व्यपदेशं लभते । अस्यैव चिद्रूपस्य भगवत 'विश्वं भवामि' इति परामृशत. आनन्दरूपा विश्वभावस्वभावमयी संविदेव किश्चिदुच्छूनतारुपा सर्वभावाना वीजभूमि शत्तयवस्था प्रतिपद्यते । अतएव परमार्थप्टथा शिव. शक्तिरिति नार्थान्तरम् । एतदेवाभिप्रेत्य 'शिवः शक्तिरिति ह्य के तत्वमाहुर्मनीपिण' इत्यागमविट । किञ्च, अयमर्थः स्पन्दशास्त्रप्रक्रिययापि
'यस्मात् सर्वमयो जीवः सर्वभावसमुद्भवः । वत्सवेदनरूपेण तादात्म्यप्रतिपत्तितः ॥ इति प्रकृत्य