________________
दुर्गा-पुष्पाञ्जलिः उत्फुल्लामलपुण्डरीकपटलीसौन्दर्य सर्वकषा मातस्तावकवारिपूरसरणिः स्नानाय मे जायताम् ॥२॥ प्रश्रान्तं तर संनिधौ निवसतः कूलेषु विश्राम्यतः पानीयं पित्रतः क्रियां कलयतस्तत्त्वं परं ध्यायतः । उद्यत्प्रेमतरङ्गभंगुरदृशा वीचिच्छटां पश्यतो दीनत्राणपरे ! ममेदमयतां वासिष्ठि ! शिष्ट व्यः॥३॥
विद्योतते यदुपकण्ठमुदारधानि ___नागेश्वरः स भगवान् दयमानमूर्तिः । यो गल्लनाद-सरयू-जल-विल्वपत्रै
रभ्यर्च्यते जनतया नतया समन्तात् ।।' शिरसि मूर्ध्नि अवतंसितस्य विभूषितस्य शशिनः ज्योत्स्नाछटा चन्द्रिकाप्रवाहः । संचिता राशीभूता । किं वा व्याधीनां पञ्चभूतशरीरात्प्रभवन्तीनां शमाय दलनाय । पीयूषस्य धारा सुधारसप्रवाहः । भूमिवलयं वसुधामण्डलं आगता संप्राप्ता । उत्फुल्ला विकसिता, अमला मनोहारिणी च या पुण्डरीकस्य सिताम्भोजस्य, पटली समवायः, तस्याश्च यत् सौन्दर्य लावण्यं, तं सर्व कषति सर्वातिरेकमानयति इति तथाभूता । हे मातः ! जननि ! तावकं भवत्याः यत् वारिपूरं अपां राशिः तस्य च या सरणिः प्रचाह सा । मे स्नानाय अन्न_ह्यमलोत्साहनपुरस्सरं अवगाहनाय जायताम् संपद्यताम् ।
३-हे वासिष्टि ! वसिष्ठस्य इयं वासिष्ठी तत्संबुद्धिः । वसिष्ठतनयात्वेन भूवलयमवतीर्णे । दीनानां दुर्वलात्मनां त्राणपरे रक्षणोद्यते । अश्रान्तं निरन्तरं यथा स्यात् तथेति क्रियाविशेषणम् । तव सन्निधौ भवत्या. समीपे, निवसतः निवासं कुवेतः । कूलेषु उभयतीरेपु विश्राम्यतः सुलभं निद्रासुखमम्चतः । पानीयं सलिल पिबत' आस्वादयत । क्रियां सन्ध्योपासनादिदेवपूजान्त व्यापार, कलयतः अनुतिष्ठतः । परं तत्त्वं नामविकारवज प्रत्यगात्मस्वरूपं ब्रह्मपदाभिधेयम् । ध्यायतः अन्तर्भावयतः । उद्यत्प्रेमतरङ्गभंगुरदशा उद्यन्तः उदयं गच्छन्तः प्रेमाणे एव तरङ्गा, तैः भंगुरा वक्रा या हक् द्रष्टिः, अपाङ्गप्रेक्षितं वा तया । वीचीनां इतस्ततो लुठन्तीनां ऊर्मीणा छटा सौन्दर्य तां पश्यत. अवलोकयत. । मम स्तुतिकतु, इदं शिष्टं अवशिष्टं वय. आयुष्यं अयताम् समाप्तिमापद्यताम् ।