________________
*'सरयू-सुधा
१११
- सरयू-सुधा । तेऽन्तः सत्त्वमुदश्चयन्ति रचयन्त्यानन्दसान्द्रोदयं दौर्भाग्यं दलयन्ति निश्चलपदः संभुञ्जते संपदः । शय्योत्थायमदभ्रभक्तिभरितश्रद्धाविशुद्धाशया मातः ! पातकपातकत्रि.! सरयु त्वां ये भजन्त्यादरात् ॥ १ ॥ किं नागेशशिरोवतंसितशशिज्योत्स्नाछटा संचिता किं वा व्याधिशमाय भूमिवलयं पीयूषधाराऽऽगता ।
सरयू-सुधा। १-हे मातः । पातकपातकत्रि । सरयु । पातयति अधो गमयति इति पातकम् । पातित्यसपादकं पापम् । तस्य पातं पातन करोति इति तत्सबोधनम् । ये जना. लोकाः, त्वाम् भवतीम् । शय्योत्थायं शय्योत्त्थानादुत्तरक्षणे । 'अपादाने परीप्सायाम' (पा. सू. ३. ४. १२) इति णमुल् । परीसा त्वरा । एवं नाम खरते यदवश्यं कर्तव्यमपि नापेक्षते, केवलं शय्योत्स्थानमात्रमपेक्षते । अद्रभ्रभक्तिभरितश्रद्धाविशुद्धाशया. । अद्भा प्रचुरा या भक्तिः अनुरागबाहुल्यम्, तया भरिता परिपूर्णा या श्रद्धा आदरातिशय., तया विशुद्ध. अतिविमल. प्राशय. चेतो येषां ते तादृशाः सन्तः । आदरात्. सन्मानबुद्धथा भजन्ति स्नानादिना त्वदुत्सङ्ग सेवन्ते । ते अन्त हृदयधाग्नि सत्त्वं सीदन्त्यस्मिन् गुणाद्याः इति सत्त्वम् बलादिकम् । 'सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयो.।' इति मेदिनी । उदश्चयन्ति वर्धयन्ति । आनन्दस्य प्रमोदस्य यः सान्द्र' निविड', उदयः उल्लासः तम् । रचयन्ति संपादयन्ति । दुर्भाग्यस्य भावो दौर्भाग्यम् दुर्दैव दला त. खण्डयन्ति । निश्चलपद. निश्चलं स्थिरं पदं यासा ताः । संपद. नानाविधानि वैभवानि । संभुञ्जते आस्वदन्ते । 'भुजोऽनवने' (पा. सू. १. ३. ६६) इति कर्तरि तड् । इह उपभोगो भुजेरर्थः । शार्दूलविक्रीडितं छन्दः ।
२-किं नागेशस्य सरयूतटमलङ् कुर्वाणस्य ज्योतिलिङ्गस्य शिवस्य । 'नागेश दारुकावने' इति शिवपुराणात् । भवति चात्र नागेश्वरमहिमावेदकं मामकं पद्यम्