________________
७७
दुर्गा प्रसादाष्टकम् एकधा दशधा क्वापि बहुधा शक्तिमाश्रये ॥४॥ स्तवीमि परमेशानी महेश्वरकुटुम्बिनीम् ।
सविशेषमुपासिता, ताम् । दशावताराणां हृदयग्राहिचरितं काश्मीरिकस्य महाकवे. क्षेमेन्द्रस्य दशावतारचरिते द्रष्टव्यम् । एकधा एकत्वरूपया शक्तिसमष्ट्या प्रतिभासमानाम् , क्वचित् दशधा दशसख्याकाभि महाविद्याभि विग्रहत्वमापन्नाम् , क्वापि च बहुधा नानाशक्तिमूर्तिभिः परिणतिं बिभ्राणाम् । अत एव चास्याः चिच्छक्तेर्लीलाविजृम्भितम्
'नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् । तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।' 'सर्वस्याद्या महालक्ष्मीरित्रगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ।।' इत्येवमादि श्रुतिसहोदर महावाक्यैस्तत्र तत्र बहुधा प्रतिपादितम् । शक्ति सर्वैश्वर्यशालिनी मातृकासरस्वती, आश्रये सर्वात्मना हृदि कलये । दशमहाविद्याश्चागमरहस्ये
'काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा । वगला सिद्धविद्या च मातंगी कमलात्मिका ।
एता दश महाविद्या. सिद्धविद्या प्रकीर्तिता' ।। इति । आसां दशावतारत्वं यथा मुण्डमालातन्त्रे
'प्रकृतिर्विष्णुरूपा च पुरूपश्च महेश्वर । एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्दश ।। कृष्णरूपा कालिका स्यात् रामरूपा च तारिणी । वगला कूर्ममूर्ति स्यान्मीनो धूमावती भवेत् ।। छिन्नमस्ता नृसिंह. स्याद् वामनो भुवनेश्वरी । कमला बौद्धरूपा स्यात् दुर्गा स्यात् कल्किरूपिणी ।। स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम् ।' इति ।
५-परमेशानी स्वान्त क्रोडीकृतअशेषवेद्यवर्गोल्लासिनीम् । महेश्वरस्य शिवस्य, कुटुम्बिनी पतिपुत्रादिविभव. प्रशस्तसौभाग्यवतीं पुरन्ध्रीरूपा