SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ७६ दुर्गा - पुष्पाञ्जलिः सेवे सैरिभसंमर्दरक्षणेषु कृतक्षणाम् ||३|| तत्तत्कालसमुद्भ तरामकृष्णादिसेविताम् । 'त्रिपु चतुर्थ तैलवदासेच्यम् ।' (शिवसू तृतीय उन्मे २० ) अयं भाव -त्रिषु जाग्रदादि पदेपु, चतुर्थं शुद्धविद्याप्रकाशरूपं तुर्यानन्दरसात्मकं धाम, तैलवत्-आसेच्यम् । यथा तैलं क्रमेण अधिकाधिकं प्रसरद् आश्रयं व्याप्नोति तथा आसेच्यम् । एतदुपष्टम्भेनैव 'जाग्रत्स्वप्नसुषु तेषु तुर्याभोगसंभवः । इत्यादिकमप्यासूत्रितम् । जायदाद्यवस्थाभिरनुवृत्तमेतत्तरीयमेव महास्फुरत्तादिशरागमेपूद्धोप्यते । एतत्सर्वमभिप्रेत्य तन्त्रालोके 'यस्य यद् यत् स्फुटं रूपं तज्जायदिति मन्यताम् । यदेवास्थिरमाभाति स्वरूपं स्वप्न ईदृश ॥ अस्फुट तु यदाभाति सुषुप्त तत् पुरोऽपि यत् । त्रयस्यास्यानुसन्धिस्तु यद्वशादुपजायते । स्रकसूत्रकल्पं तत्तुर्यं सर्वभेदेपुं गृह्यताम् ॥' इति | आचार्य शंकरभगवत्पादैरपि सौन्दर्यलहर्याम् 'तुरीया कापि त्वं दुरधिगम निःसीममहिमा ।' इत्यादिना तुरीयाया माहात्म्यमुन्मीलितम् । तुर्यातीतञ्च परमप्रमातृतयावस्थितं महाप्रक्राशरूपं सर्वभावेष्वनुस्यूतम् । यदुक्त ं स्पन्दशास्त्रे 'जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलव्धृतः ॥' इति । प्रतिव्यक्ति प्रतिप्रकाशं तत्तत्कार्यसंपादनवेलासु किमपि लोकोत्तरमद्भुत च कौशलमातन्वतीमित्याशयः । विलक्षणाम् अलौकिकैश्वर्यवतीम् । सैरिभो महिषासुर. तज्जनितो यो लोकानां समई: अरुन्तुदं निष्पीडनम्, ततो रक्षणेषु रक्षाकर्मसु, कृन. विहित क्षण. उत्सवो अनया ताम् । महालक्ष्मीस्वरूपेणावतीणां महिपमर्दिनीमित्यर्थ | सेवे तादात्म्येन आलये | ४- तत्तत्कालेषु कृतयुगादि द्वापरान्तेपु, समुद्भूताः अवतारविग्रहत्वेन पृथिव्यामवतीर्णा ये राम-कृष्णप्रभृतयः पूर्णपाड्गुण्यमहिमानों महापुरुषा. तै. सेविता
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy