________________
दुर्गाप्रसादष्टकम् अद्वयानन्दसंदोहमालिनी श्रेयसे श्रये ॥२॥ जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम् ।
'न सोऽस्ति प्रत्ययो लोके य शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।।' अथवा मालिनीपदमिह मायाबीजपरं द्रष्टव्यम् । तथाच मायावीजस्वरूपिणीमित्यर्थोऽपीह कण्ठरवेणोपात्त । 'ह्रींकार उभयात्मक.' इत्यादि ब्रह्माण्डपुराणोक्त्या मायाबीजेन मिथ समरसापन्नस्य शिवशक्त युभयात्मन' ब्रह्मण एव प्रतिपादनात् । किंच मालिनीपदस्य गौरीरूपोऽर्थोऽपि यथासंभवं उत्प्रक्षितु शक्य. । तथा च विश्व :
'मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि ।
चम्पानगयों गौया च मन्दाकिन्यां च मालिनी ।।' इति । श्रेयसे श्रेय.फलावाप्तये श्रये शरणं प्रपद्य ।
३-जायदादयः कालक्रमानुप्राणिता अवस्थाविशेषाः । तत्र च सर्वसाधारण्येन अर्थ विषयीकृत्य बाह्यान्तरोभयविध इन्द्रियजन्य ज्ञानं लोकस्य जाग्रदवस्थेति व्यपदिश्यते । अन्त करणमानहेतु असाधारणार्थनिर्माणप्रकृति विकल्प एव स्वप्नावस्थेत्युच्यते । सर्वाकारेण अर्थस्फुरणशून्यता च सुषुप्तिरभिधीयते । तदित्थं एकस्यैव वस्तुनो निर्विकल्प-सविकल्पकतया प्रमितिविषयीभवन जाग्रत्स्वप्नौ। तत्रैव स्वरूपानभिज्ञान सौपुग्तमिति विवेक. । यदुक्तं शिवसूत्रेषु'ज्ञान जाग्रत्' 'स्वप्नो विकल्प' अविवेको मायासौषुप्तम् ।'
(शिवसू. प्रथम उन्मे. ८,६,१०) एतेपां विशद व्याख्यानं तु शिवसूत्रविमशिन्यां द्रष्टव्यम् । एत एव जाग्रदादयो योगभूमिकासु धारणा-ध्यान-समाधिरूपतया प्रख्याप्यन्त इत्यवधेयम् ।
आदिशब्दात् तुरीयावस्थाया तुर्यातीतस्य च परिग्रह. । इयञ्च तुरीयावस्था शिवसूत्रेष्वेवं लक्षिता
- १-एवमादिस्थलेपु बीजार्थावगतये अस्मत्प्रपितामहैराचार्यश्रीसरयूप्रसादद्विवेदचरणैः प्रणीतो वर्णबीजप्रकाशाख्यो मन्त्रकोशः सुधीभि ईप्टव्यः ।