________________
७४
दुर्गा-पुष्पाञ्जलिः . प्रसिद्धां परमेशानी नानातनुपु जाग्रतीम् ।
२-प्रसिद्धां पण्डितादिपामरान्तलोकै.अहमिति वेद्यतयानुभूयमानाम् | अकारादि हकारान्तमातृकास्वरूपेण अहमिति स्फुरणात्मिकामित्याशयः । तदुक्तं विरूपाक्षपञ्चाशिकायाम्
'स्वपरावभासनक्षम आत्मा विश्वस्य य प्रकाशोऽसौ ।
अहमिति स एव उक्तोऽहतास्थितिरीदृशी तस्य ।।' अमुमेवार्थं 'मातृकाचक्रसंबोध' इति शिवसूत्रे वरदराजाचार्योऽयुक्तवान्
'अतोऽकारहकाराभ्यामहमित्यपृथक्तया ।
प्रपञ्च शिवशक्तिभ्या क्रोडीकृत्य प्रकाशते ।।' अन्यत्रायुच्यते
'अकारः सर्ववर्णाग्य प्रकाशः परम शिव' ।
हकारोन्त्यः कलारूपो विमर्शाख्य प्रकीर्तितः ॥' इति । परमा उत्कृष्टा च सा ईशानी स्वामिनी च ताम् । परमैश्वर्यशालिनीमित्यर्थः। नानातनुपु ब्रह्मादिस्तम्वपर्यन्तासु जडाजडात्मिकासु सृष्टिव्यक्तिपु । जाग्रती प्रबुद्धां, .
चैतन्यात्मना स्फुरन्तीमिति भाव । 'जागृ निद्राक्षये'। शत्रन्तान्डीप् । 'नाभ्यस्ताच्छतु' रिति नुम. प्रतिपेध. । अद्वयस्य परस्परं सामरस्यमापन्नस्य निरुपाधिकस्य शिवशक्तिरूपस्य, यः आनन्दसदोह. निरर्गलो आनन्दोल्लासभरः, तस्य मालिनी पञ्चाशद्वर्णमातृकाभिमानिदेवतास्वरूपिणीम् । ब्रीह्यादिपाठादिनि । यथोक्तमागमरहस्ये
'अकारादिक्षकारान्ता पञ्चाशद्वर्णमातृका । पृथग वर्णा. शशिधरा पञ्चाशद्वीजसजका ॥ मालिनी मैव विख्याता सर्वमंत्रस्वरूपिणी ।' इति ।
सृष्टिकारणतयाभ्युपगम्यमाने शिवशक्तिरूपे ब्रह्मणि अर्थत्ववच्छब्दत्वमपि प्रतितिष्ठतीति चतुरस्रम् । अड् कुरतच्छाययोरिव परस्परसंपृक्तयोरेव शब्दा. र्थसृष्टयो. प्रादुर्भावावगमात् । तत एव 'वागर्थाविध संपृक्तौ' इत्यादिकमप्युपपद्यते । वाक्यपदीये भगवद्भत हरिणा'युक्तम्