________________
दुर्गा-पुष्पाञ्जलिः पद्मामनोपेन्द्रमहेन्द्रमौलिमन्दारमालाङ्कितपादपीठा । मातः ! शिशूक्तिश्रवणस्वभावे ' दुर्गाप्रसादस्य गतिस्त्वमेका ॥८॥ सेवासक्तसुरासुरावलिशिरोमाल्यान्तरालस्खलखूलीधूसरपादपीठविलुठत्सौभाग्यसीमायिते ! । निर्व्याजस्थिरभक्तियोगसुलभे! मातस्तवाराधने चेतो मेऽनिशमुद्गताधिकरसं चैपुल्यमालम्बताम् ॥६॥
॥ इत्यात्मार्पणम् ॥१४॥
८-पद्मासन. परमेष्टी, उपेन्द्रो विष्णु', महेन्द्रः शंकर , तेषा मौलौ मूनिसश्लिष्टे किरीटे या मन्दारस्य माला पारिजातस्रक तया अड्वितं चिहिनतं पादपीठं पादस्थापनासन यस्या सा । हे मातः ! शिशोक्तेः सुलभस्खलितस्य बालभाषितस्य श्रवणस्वभावः श्रवणे अभिरुचिर्यस्या , तत्सबोधनम् । शेपं प्राग्वन्।
६-सेवासक्तानां सेवापरायणानां, सुरासुराणां देवानां दानवानां च या आवलि. श्रेणी तत्शिरसि मूनि, यत् माल्यं पुष्पदाम, तदन्तरालात् तन्मध्यात्, रखलन्ती विकिरन्ती, या धूली रज'कणिका, तया धूसरं किंचिन् पाण्डुरतां गत यत् पादपीठं चरणावारः, तत्र विलुठत् समन्ततो लुलन् यत् सौभाग्यं सुभगत्वं तस्य सीमायिते सीमामुपेते ! निर्व्याजा अकृत्रिमा निर्दम्भा च या स्थिरा भक्तिः दृढोऽनुराग , तम्याः योगेन संयोगेन सुलभे ! सुप्रापे ! तबाराधने तवोपासने, हे मात' ! मे चेत. स्वान्तं अनिशं नक्तदिवं उद्गतः उत्पन्न', अविक' आशातीत , रसो राग. यस्मिन् तदिति क्रियाविशेषणम् । वैपुल्यं प्राशस्त्यं, आलम्बतां समाश्रीयताम । 'लवि अवस्रसने' इति भौवादिकान् प्रार्थनाया लोट । शाल-विक्रीडितं छन्द ।
।। इत्यात्मार्पणम् ॥ इति दुर्गापुष्पास्खलौ प्रथमो विश्राम ।