________________
७०
दुर्गा-पुष्पाञ्जलिः
चतुर्दश-स्तवः । अपारकारुण्यसुधासमुद्र-रिङ्गत्तरङ्गावलिलीनचेताः । वन्दास्वृन्दाथितकल्पवल्लि ! दुर्गाप्रसादस्य गतिस्त्वमेका ॥१॥ असीमसारल्यलताप्रतान-विजम्भणोद्यानविशालसीमा।। निःशेषभक्तातिविनाशशीले ! दुर्गाप्रसादस्य गतिस्त्वमेका ॥२॥ उदारचारित्रविकाशगन्ध-सञ्चारणाडम्बररोदसीका । हृद्यावदानोत्करभासमाने ! दुर्गाप्रसादस्य गतिस्त्वमेका ॥३॥
चतुर्दश-स्तवः । १-अपार अपरिमेयं यन् कारुण्यं, तदेव सुधासमुद्र सुधासागर , तत्र रिङ्गन्तीपु शनैरुपसर्पन्तीपु तरगाणां ऊर्मीणां श्रावलिपु पडिक्तपु लीनं निमग्नं चेतो मानसं यस्याः सा, तथाभूता । वन्दारवः वन्दनशीला 'शूवन्द्योरारुः (पा० सू० ३.२ १७३) इति प्रारुप्रत्ययः । तेषां वृन्देन सङ्घन अर्थिता अभ्यर्थिता कल्पवल्ली पारिजातव्रतती तत्संबुद्धि । दुर्गाप्रसादस्य पुप्पाञ्जलिनिवेदयितु. त्वं भवती एका अनन्या गतिः शरणीभूता । असि इत्यध्याहार्यम् । वंशस्थेन्द्रवंशयोरुपजाति ।
२-असीम सीमामतिक्रान्तं यत् सारल्य औदार्य तदेव लताप्रतान' वल्लीविस्तार. तस्य विजृम्भणाय विकाशाय यदुद्यान उपवनम् तस्य विशाला महती सीमा पर्यन्तभूमि । नि शेपा समस्ता या. भक्तानां सेवासक्ताना आत य. दुखपरम्पराः, तासां विनाश समुच्छेदकरणमेव शीलं स्वभावो यस्या तत्सम्बुद्धि । चतुर्थश्चरण. पूर्ववदेव सर्वत्र व्याख्येयः ।
३-उदारं सरल यत् चारित्रं चरितम् । स्वार्थे अण । तस्य यो विकाशगन्धः उत्फुल्लतया संसर्पन सुरभि., तस्य सञ्चारणे सर्वत प्रमारणे य आडम्बर संरम्भ, स रोदसीकः भुवो गगनान्तं व्याप्त यस्या सा । हृद्य मनोज यत् अवदानं पराक्रम. तस्य उत्करेण राशीभूतेन भासमाने । विद्योतमाने ! । शेपं प्राग्वदेव योजनीयम ।