________________
त्रयोदश-स्तवः इति क्लेशक्लिष्टे मयि यदि न ते मातरधुना
दयायोगो योगो भवति जनुषो निष्फल इह ॥७॥ सुधाधाराकारां मयि वितर दृष्टिं सकरुणा
मये! मातस्त्वत्तो गतिरिह ममान्या न भुवने । प्रसूपाचं त्यक्त्वा कथय कथमन्यं शिशुरिया
हया वा दण्डो वा भवतु पुनरौदास्यमतुले ॥८॥ संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता। मण्डिता सकलैश्वर्यैः सा परा संप्रसीदतु ॥६॥
॥ इत्यवस्था-निवेदनम् ॥१३॥
इति क्लेशै. अविद्यास्मितादिभिः पञ्चविध , क्लिष्टे व्याकुलिते मयि मद्विषये, हे मात । यदि ते अधुना दयायोगः करुणाप्रसरो न जायते, तदा जनुषः पञ्चभूतपिण्डस्यास्य देहस्य योगः उत्पत्तिः, इह संसारे निष्फल एव निरर्थक एव । ____-मयि सुधाधाराकारां पीयूषसारसरसां, सकरुणां कृपापरीतां, दृष्टिं दृष्टिपातं वितर ददस्व । अये इति विषादे अव्ययम् । मात । इह भुवने अस्मिन् जगति त्वत्त' अन्या अपरा काचन मम गतिः गन्तव्यस्थानं न सभवति । शिशुर्वाल. प्रमूपाश्व मातुरुत्सङ्गं त्यक्त्वा विहाय अन्यं अपर कथं इयात् यायात् । 'इण गती' इत्यत सभावनायां लिड् । इति त्वमेव कथय अभिधेहि । हे अतुले । निरुपमे । दया करुणा दण्डः ताडनादिकम् वा, औदास्यं तटस्थभावो वा भवतु जायताम् ।
६-संसाररूपं यत् पङ्क कर्दमम् तत्र निमग्नानां नि शेपेण मग्नानाम् अतएव कूर्मपुराणे
'ये मनागपि शर्वाणी स्मरन्ति शरणार्थिन ।
दुस्तरापारससारसागरे न पतन्ति ते ॥ इति । समुद्भरणे सम्यगुद्धारकरणे पण्डिता कुशना, सकलै. समस्तै ऐश्वर्य. विभूतिभि., मण्डिता विभूषिता, सा परा कुलकुण्डाधिवासिनी त्रिपुरसुन्दरीति प्रसिद्धा संप्रसीदतु प्रसादसुमुखी भवतु ।
॥ इत्यवस्था-निवेदनम् ।।