________________
दुर्गा-पुष्पाञ्जलिः त्रयोदश-स्तवः ।
अयं दाता तुष्येदयमपि धरित्रीपरिवृढः
प्रसीदेदित्याशा जगति बहु तावद् भ्रमयति । शिवे ! यावद्युष्मच्चरणयुगले नम्रकमले
व्यपेतान्यासक्तिनहि भवति भक्तिः शिखरिणी ॥१॥ दिवा तत्तत्कार्यव्यतिकरपरीतेन मनसा
निशायामप्यारान्मुहुरुपचितस्वप्नमहसा । पराक्रान्तो दृये जननि ! जगतामेकशरणे !
कथं वीक्षोपेक्षासरणिमनुसतु प्रभवसि ॥२॥
त्रयोदश-स्तवः। १-अयं अमुकनामा दाता दानकर्ता तुष्येत् संतुष्टो भवेत् । अयं एपः, धरित्रीपरिवृढः भूभर्ता अपि 'प्रभुः परिवृढोऽधिप. ।' इत्यमरः । प्रसीदेत् प्रसन्नो भवेत् । प्रपूर्वकात् 'षद्लु' धातो. लिड् । इति एवंरूपा आशा तृष्णामरीचिका, तावत् बहु अतिमात्रम् , भ्रमयति गृहाद् गृहं संचारयति । हे शिवे | कल्याणिनि ! यावत् भवत्या. नम्रकमले कमलादपि कोमले चरणयुगले । व्यपेत. निर्गत. अन्यस्मिन् आसक्तिरूप प्रणयो यस्याः सेति भक्तेर्विशेषणम् । शिखरिणी शैलशृङ्ग इवोन्नतस्वभावा न भवति । शिखरिणीपदमिह श्लिष्ट द्रष्टव्यम् । तेन प्रकृतस्तवे शिखरिणीछन्द इत्यपि सूचितम् ।
२-दिवा प्रातरारभ्य दिनावसानम् यावत् , तत्तत्कार्याणां अवश्यकर्तव्यतया प्रत्यहमुपस्थितानां, यो व्यतिकर' सम्बन्ध , तत्र परीतेन परिवेष्टितेन मनसा । निशायां रजन्याम् अारात समीपतो दूरतश्च, पाराद् दूरसमीपयो इत्यमर. ।' मुहु उपचितं वृद्धि गत यत् स्वप्नरूपं महः तेजोरूपं चाकचक्य तेन । पराक्रान्त. परितोऽभिभूतः दूये परितापं सहे । 'दूइ परितापे' इति देवादिकात् कर्तरि लट् । हे जगतामेकशरणे । एकावलम्बभूते ! वीक्षाया स्नेहष्टे., या उपेक्षा
औदासीन्यं, तस्या सरणि मार्ग, कथं केन रूपेण, अनुसतु अनुगन्तु प्रभवसि शक्नोसि ।