SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ द्वादश-स्तवः कमले भास्करभामिव कुमुदे चान्द्रीमिवामला भासम् । भवने दीपशिखामिव, चेतसि भान्ती समीहे त्वाम् ॥७॥ वन्धूकबन्धुराङ्गी, विलसत्कारुण्य सुन्दरापाङ्गी । भास्वद्भ पणभङ्गी, मानससङ्गीकृते भूयात् ॥८॥ याविग्रहापि सर्वत्र पञ्चायतनविग्रहा । यजतां स्मरतां सास्तु, भोगस्वर्गापवर्गदा ॥६॥ ॥ इत्यार्याभ्यर्चना ॥१२॥ ७-कमले पद्म भास्करस्य भामिव अर्कस्य दीधितिमिव,कुमुदे कुमुद्वत्यां, अमला निर्मला, चान्द्री ऐन्दवी भासं ज्योत्स्नामिव । भवने वासगृहे दीपशिखामिव दीपज्योतिरिव त्वां चेतसि भान्ती चकासन्ती समीहे अभिलषामि ।। ___-वन्धूकवत् बन्धूकपुप्पारुणिमेव वन्धुरं सुन्दर अङ्गम् यस्याः सा । बन्धूक. बन्धुजीवकनामा बगदेशप्रसिद्धो महावृक्षः। विलसत् विशेषेण भासमानं यत् कारुण्यं करुणोदय तेन सुन्दरे रुचिरे अपाङ्ग नेत्रप्रान्ते यस्या सा : भास्वद्भपणानां द्यु तिमता अलङ्काराणां भङ्गी रचनाविशेषपात्रीभूता। मानसस्य एकाकिनो मनस' सङ्गीकृते सहवासाय भूयात् । ६-या सर्वत्र अविग्रहा अपि अशरीरा अपि पश्चानां आयतनं पञ्चदेवतास्मक विग्रह शरीरं यस्याः सा। इह पञ्चायतने भगवत्या एव प्राधान्यात् इतरेपा च गुणीभावात् पञ्चायतनविग्रहत्वमस्या इति द्रष्टव्यम् । उपासनात्मे सगुणब्रह्मपञ्चधारासु 'यथाभिमतध्यानाद्वा' (यो० द० १. ३६) इति नीत्या अन्यतमाया प्राधान्यमास्थीयते । तथा च पञ्चायतनीमुद्दिश्य गणेशविमशिन्याम्'शम्भौ मध्यगते हरीनहरभूदेव्यो, हरौ शंकरे भास्येनागसुता रचौ हरगणेशाजाम्विका. स्थापिता. । देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरे नार्या शकरभागतोऽतिसुखदा व्यस्तास्तु ते हानिदा. ॥ इति । सा यजताअन्तर्याग-बहिर्यागवताम् । स्मरतां नामपारायणादिकेन स्मरणं कुर्वताम् । भोग ऐहलौकिक नवनवोपभुज्यमान. श्रियोल्लास , स्वर्ग स्वर्लोकसुख,, अपवर्ग कैवल्य च, तान् ददाति इति तथाभूता अस्तु । ।। इत्यार्याभ्यर्चना ॥
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy