________________
दुर्गा-पुष्पाञ्जलिः . साधुर्वाऽसाधुर्वा यौष्माकत्वेन विश्रुतो जगति । मावरुपेक्षायोगे कथय कथं जीवनं घटते ॥३॥ इदमर्थये त्ववश्यं कर्मकलाप्रसरवाध्यमानोऽपि । जन्मनि जन्मनि भवती, न विस्मरामि स्मराम्येव ॥४॥ प्रतिफलतु चित्तफलके भवती भवतीत्रवासनाशमनी । शमनप्रशमनसरणी शरणीभूता प्रपञ्चस्य ॥२॥ उद्घ तमानसशल्यां, स्फूर्जकल्याणकल्पनाकल्याम् । भक्ताय साधुवल्लीं कलये ललितां स्फुरन्माल्याम् ॥६॥
३-साधुः शिष्टः, असाधुरशिष्टो वा, यौष्माकत्वेन त्वदीयत्वेन जगति इह संसारे, विश्रु तोऽस्मि विख्यातो वर्ते ।हे मातः ! उपेक्षायोगे अवज्ञाप्रसङ्ग जीवनं प्राणनमेव कथं केन रूपेण घटते संभविष्यति । भविष्यदर्थे लट् । इति कथय वाचं देहि ।
४-इदम् यक्ष्यमाणं, अवश्यं नूनं भर्थये अभ्यर्थये, यत् कर्मणः लोकवृत्तस्य प्रपन्चैकजन्मनः व्यापारजातस्य, या कला नवनवो उदयः, तस्य प्रसरेण आधिक्येन वाध्यमानः अनन्यगतिकत्वेन न्यग्भावं नीयमान , जन्मनि जन्मनि भवे भवे संसरणदशामधिशयानोऽपि भवतीं त्वाम् स्मराम्येव सोत्कण्ठं अन्तर्विमृशामि, न विस्मरामि त्वद्विमुखो न भवामि ।
५-चित्तफलके चित्तादर्श, भवस्य जगतः याः तीव्रवासनाः उद्दामव्यापारजन्मानो मनोरथाः तासां शमनी विश्रान्तिदायिनी भवती प्रतिफलतु प्रतिबिम्बतु । शमनप्रशमनस्य शमनो यम तस्य प्रशमनस्य अभिभवस्य सरणी प्रवाह. । प्रपश्वस्य विश्वोत्त्थस्य शरणीभूता आश्रयत्वमापन्ना।
६-उद्ध तं उत्क्षिप्तं मानसस्य चित्तस्यशल्यं दुस्सहत्वेन दुःखरूप कीलकं अनया ताम् ।स्फूर्जत् यत्कल्याणं निःश्रेयसं तस्य या कल्पना रचनापारम्परी, तत्र कल्या निपुणा ताम् । भक्ताय उपासकाय नतु वैषयिकप्रवाहपतिताय, साधुवल्ली कल्पभूरुहनततीम् । स्फुरत् दीन्यत माल्यं दाम यस्याः सा, ताम् । ललितां महात्रिपुरसुन्दरी कलये चिन्तये ।