________________
द्वादश-स्तवः तेऽन्तःप्रमादमबहत्य समूलघातं
दुर्गा-प्रसादनकृते प्रगुणीभवन्ति ॥६॥ ॥ इत्यन्तर्विमर्शः ॥११॥
द्वादश-स्तवः । शोधय मानससरणिं, बोधय विज्ञानकोरकाएपभितः । साधय सकलमनोरथमपारकरुणानिधे ! मातः ! ॥१॥ जननि ! यदि त्वमुपेचामस्मद्वीक्षाकते समाश्रयसे । श्रादिश कुमुदविकाशे धन्या चन्द्रद्युतेः कान्या ॥२॥
वाचा स्तुतिरियम् । इत्येवमादि निदर्शनात् । एवं पुष्पाञ्जलिसमर्पकेन एतन्नाम्ना प्रसिद्धन लविना गदितमित्येवंरूपोऽर्थोऽपि यथायथमनुसन्धेयः । स्तवरत्नं स्तवेषु रत्नायमाणमिदं समुदीरयन्ति भक्न्या अभिष्टुवन्ति, ते समूलघातं पञ्चविधक्लेशानां मूलोच्छेदपुरस्सरम् । समूलाकृतजोवेषु हन्कृग्रहः (पा० सू० ३.४. ३६.) इति णमुल । अन्तःप्रमादं चित्तविक्षेपसहभुवां अन्तर्वतिनी अनवधानतां अवहत्य उच्छिद्य दुर्गायाः स्वनामधन्यायाः जगन्मातुः यत् प्रसादनं स्फारं हृदयावर्जनं तस्य कृते प्रगुणीभवन्ति अतितरां सामर्थ्य भाजो भवन्ति । वसन्ततिलका-वृत्तम् ।
द्वादश-स्तवः । १-मानससरणिं मनोरूपां पद्यां शोधय विमला विधेहि । अभितः समन्ततः, विज्ञानकोरकाणि विज्ञानरूपाः कलिकाः बोधय विकासय । हे अपारकरुणानिधे ! निरवधिकारुण्यनिधाने! सकलं मनोरथं सर्वविधां मनोऽभिलाषां साधय संपादय । आर्यावृत्तम् ।
२-हे जननि ! अस्मद्वीक्षाकृते अस्माकं स्नेहेक्षणव्यापारे यदि त्वं उपेक्षा समाश्रयसे, उपेक्षाभावं औदासीन्यं वा भजसे तर्हि आदिश कथय कुमुदविकाशे कारोदये चन्द्रा तेः ज्योत्स्नायाः, अन्या अपरा का धन्या उपकाररूपस्थ श्रेयसो भाजनीभूता ।