________________
C..
त्रयोदश-स्तवः
बहु भ्रान्तं मातर्दिशि दिशि दुराशाहतधिया
परां काष्ठां नीतं मलिनमपि भूपालचरितम् । इतिप्रायः कृत्यैः परिकलितकाये मयि दया
सुधाधारासारैः शिशिरितदृशं पातय मनाक । ३॥ परित्यक्तो मित्रैरपि बहु विचित्रैरहरहः
कथैवान्येषां का प्रतिपदनिजार्पितधियाम् । दुराधिव्याधिभ्यां व्यथित इह वर्ते त्रिजगतां
शरण्ये ! कर्णे किं गमयसि न मे क्रन्दितमिदम् ।।४।।
३-हे मात । दिशि दिशि प्रतिदिशं वी'सायां द्विर्भाव ।दुराशया मरुमरीचिसन्निभया हता कुण्ठिता धी यस्य स तेन । बहु यथास्यात्तथा भ्रान्त चड कमितम् । मलिन अपि परिवादगन्धैः कलुषितं अपि, भूपालानां लक्ष्मीदुर्ललिताना राज्ञां, चरितं उच्चावचं विलसितं, परां काष्ठां चाटुकारितादिभिः अतिरञ्जितामवस्था नीतं प्रापितम् । आशाग्रहास्तै. मर्यादामतिलड्घ्य असपि सदिव ख्यापितमिति भावः । इतिप्रायै. एवमादिभि कृत्य करणचेष्टितैः परिकलितं अहरह. अतिवाहितं क्षपित वा कायं देहो यस्य स , तस्मिन् । मयि दयनीये, दयैव सुधा तस्या धारासारै धारासंपाते । शिशिरिता चासौ दृक् च शिशिरितहक् ताम्, शीतला दृष्टिं मनाक ईपत् , पातय संघटय ।
४-अहरह. दिने दिने, बहु विचित्र उच्चावचै विचित्रस्वभावै. मित्र. मित्रतया जगति विश्रुतै , परित्यक्त. सर्वथोपेक्षित. । प्रतिपद पदे पदे निजाथै स्वार्थसन्धानफले समर्पिता समासक्ता धीविषणा येषां तेषाम् । अन्येषां गजनिमीलिकया पश्यतां संसारिणां तु कथा एव का ? तेषां वार्तंव नोदेति । हे त्रिजगतां एकशरणे । एकावलम्बभूते । शरण्ये ! शरणागतपरायणे दुराधय. दुसहा मानसोत्त्था सतापा , व्याधय. शरीरोपमर्दिन्यो रोगवेदना , ताभ्यां व्यथित. अन्त संतप्त , इह संसारे वर्ते तिष्ठामि । मे मम अशरणस्य क्रन्दित विलपितं कर्णे किं न गमयसि न शृणोषि ।