________________
एकादश- स्तवः
श्यामामपि परिस्फूर्जतडित्कान्तकलेवराम् । वन्दे त्रिविग्रहां नानाविग्रहामप्यविग्रहाम् ||५|| संसारसर्प- संदष्ट-स्वास्थ्यसंपादनोद्यताम् ।
श्रये ॥६॥
उद्यत्सान्द्रदयादृष्टि-दृष्ट-भक्तकुलां
दुर्वासनासरिन्मग्नसमुद्धरण तत्पराम् । उपासे परमेशानीं स्थास्नुसौहित्य साधनीम् ||७||
४- यदाज्ञया यन्निदेशमनुवर्तमानाः, पञ्चभूतानि पृथिव्यादीनि, स्वस्वकृत्ये स्वस्यव्यापारजाते जाप्रति व्याप्रियन्ते । तां सिद्धिरूपाभ्यां पाणिभ्यां ग्रहणं आदानं यस्य एवंभूतस्य कल्याणस्य मङ्गलस्य कलशीं पयःपूरम् स्तुवे स्तौमि । 'ष्टु स्तुतौ ।'
६१
५ - श्यामां रजस्तमोबहुलामपि सत्त्वाश्रयां शांभवीम्, तथा च गौडपादीयं सूत्रम् - ' शांभवीविद्या श्यामा' इति ।
एवं देवीभागवते ऽपि
'शांभवी शुक्लरूपा च श्रीविद्या रक्तरूपिका । श्यामला श्यामरूपास्यादित्येता गुणशक्तयः ।।' इति ।
परिस्फूर्जन्ती स्पष्टमुल्लसन्ती या तडित् विद्युत् तद्वत् कान्तं मनोहरं कलेवरं वपु र्यस्या' सा ताम् । त्रिपुरसुन्दरीविप्रहामित्यर्थः । त्रिविमां त्रयो विग्रहाः इच्छा - ज्ञान-क्रियारूपाः यस्याः सा ताम् । नाना अनेके विग्रहाः शरीराणि यस्या, ताम् । अनेकशक्तित्रातरूपेणस्फुरन्तीं जगदात्मना वा उल्लसिताम् । अविग्रहां निराकाराम् । साकार निराकाररूपाभ्यां अनेकधा परिणमन्तीमिति परमार्थः । घन्दे प्रणतोऽस्मि । 'वदि अभिवादनस्तुत्यो' इत्यतः कर्तरि लट् ।
"
६-संसार एव सर्पो भुजग:, तेन संदष्टस्य कवलितस्य जन्तोः स्वास्थ्यसंपादने आरोग्यकरणे उद्यताम् सन्नद्धाम् । उद्यन्ती विकसन्ती या सान्द्रा धना दयादृष्टिः करुणोर्जितो दृकपातः तया दृष्टं निभालितं भक्तकुलमनया ताम् । श्रये शरणं प्रपद्ये । 'श्रिन् सेवायाम् ' कर्तरि लट् ।