________________
दुर्गा-पुष्पाञ्जलिः तां व्यामृशामि विश्वेशी दहराकाशरूपिणीम् ॥३॥ यदाज्ञया स्वस्वकृत्ये पञ्चभूतानि जाग्रति । तां सिद्धिपाणिग्रहणकल्याणकलशी . स्तुवे ॥४॥
'वितर्कविचारानन्दास्मितारूपानुगमात् . संप्रज्ञातः ।' विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ।'
(यो० द. १. १७-१८) ध्यानोत्कर्षमहिम्ना कर्तृकरणानुसन्धानमन्तरेणैव ध्येयमात्रगोचरतया निर्भासमानः समाधिः । स एव यथाविधि सेवितः निरस्तरजस्तमस्तोमः सत्त्वगुणस्योद्रे कात् यथोत्तरमुत्कर्षभूमिमश्नुवानः, चिरतरमासेव्यमानश्च संप्रज्ञातः । अस्यापि निरोधे सर्ववृत्तिनिरोधरूपो निर्वीजश्व द्वितीयः परिणमति । भवति चात्र सारसंग्राहिका पद्यद्वयी--
- . 'ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृति विना। . . संप्रज्ञातसमाधिः स्यात् ध्यानाभ्यासप्रकर्षत. ।। मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः ।
यासंप्रज्ञातनामासौ समाधिरभिधीयते ।।' इति । अन्तः हृदयागारे, प्रत्यक्षीक्रियते अनुभवमार्ग नीयते । तां दहराकाशरूपिणीं दहरपुण्डरीकात्मना भासमानां, विश्वेशी विश्वेषामीश्वरीम्, व्यामृशामि अन्तःपरामशामि । दहरमहिमा छान्दोग्योपनिषदि एवं श्रूयते
'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाश', तस्मिन् यदन्तः, तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् ।' इति । - स्तुतिकुसुमाञ्जलावपि भन यन्तरेण- -
'ओमिति स्फुरदुरस्यनाहतं ... .. . . . . गर्भगुम्फितसमस्तवाड्मयम् । दन्ध्वनीति हृदि यत्परं पदं
तत्सदतरमुपास्महे मह' ॥ इत्याधु पश्लोकितम्।