________________
दुर्गा-पुष्पाञ्जलिः चतुर्वर्गसम्पत्प्रदानप्रवीणैः,
स्फुरद्भिश्चतुर्भिभुजैर्भासमानम् । धनुर्वाणपाशाङ्क शं साधु विभ्र
भवत्याः स्वरूपं ममान्तश्चकास्तु ॥६॥
६-चतुर्णा वर्गः चतुर्वर्गः, धर्मार्थकाममोक्षाणां समवायः स एव परमाभिलषणीयतया संपत् संपत्तिः । तस्या प्रदान वितरणे प्रवीणैः निष्णातैः, स्फुरद्भिः शोभामावहद्भिः, चतुर्भिः चतुःसंख्याकैः भुजैः हस्तै र्भासमानं दीव्यन्तम् । धनुः पुण्ड्रेतुमयं चापः । वाणाः पुष्पमयाः सायकाः । पाशांकुशौ स्वनामप्रसिद्धौ । साधु यथा स्यात् तथा बिभ्रत् धारयत् भवत्याः श्रीमत्याः स्वरूपं सर्वाङ्गसुभगं ममान्तः हृदयाम्बुजे चकास्तु दीव्यतु । अस्या एव
'आधाराब्जे धनुर्वाणवरदाभयलक्षिताम् ।
ध्यायेद् बन्धूकपुष्पाभां कामराजस्वरूपिणीम् ॥' इत्येवमादीनि कामनाघटकानि ध्यानानि । तत एव परापरवासनाभैदेरेकस्य एव वस्तुनः सहस्रधा क्रियमाणं वर्णनवैचित्र्यं नातिभिद्यते । अतएव च उत्तरचतुःशत्यादिपु
'इच्छाशक्तिमयं पाशमंकुशज्ञानरूपिणीम् । क्रियाशक्तिमये वाणधनुपी दधदुज्ज्वलम् ।'
तथा
'मनो भवैदिक्षुधनुः पाशो राग उदीरितः ।
द्वषः स्यादड्कुशः पञ्चतन्मात्राः पुष्पसायकाः ।।' इति तन्त्रराजादिपु प्रतिपादितं तत्त्वोपवृहणं मन प्रसादफ्लकमेकवाक्यतयैव नैतव्यम् । योगवासिष्ठादिपु
'सामान्यं परमं चेति व रूपे विद्धि मेऽनघ ।। पाण्यादियुक्तं सामान्यं यत्तु मूढा उपासते ॥ परं रूपमनाद्यन्तं यन्ममैकमनामयम् ।
ब्रह्मात्मा-परमात्मादि शब्दैरेतदुदीर्यते ॥' इत्युक्तरुपा सरणिस्तु सामान्यजनगम्या प्रचरत्येव इति किं वहूक्त्या ।