________________
दशम-स्तवः
परित्राणकत्रि ! त्वमेवात्मदृष्ट्या
रुजाजालजीर्णाङ्गक मामवाशु ॥३॥ यदाचार्यमूर्त्या भवत्या प्रदिष्टं
न तत्साधने सावधाना मतिर्मे । अहो विस्फुरद्वासनाक्लेशपाशा
__वृतो बम्भ्रमीम्याशु मातः ! प्रसीद ॥४॥ लमद्भ रिसिन्दूरपूरप्रकाशं
किमप्युद्यदुद्दाममोदप्रवाहम् । अकम्पानुकम्पापरीतं प्रसन्न
भवत्याः स्वरूपं ममान्तश्चकास्तु ॥५॥
परित्राणकत्रि रक्षणपरायणे, त्वं एव भवती एव आत्महष्ट्या स्वतः प्रवृत्तया दयाहशा, रुजायाः विविधप्रकृतिकस्य रोगवृन्दस्य यो जालः इन्द्रजालसदृशः, तेन जीर्ण जरायुक्तं अङ्ग देहो यस्य, तम् । मां अनन्यगतिकम् । आशु सत्वरं अव रक्ष । प्रार्थनायां लोट । ४-आचार्यमूल् गुरुमूल् । आचार्यश्च
'आम्नायतत्त्वविज्ञानाचराचरसमानतः ।
यमादियोगसिद्धत्वादाचार्य इति कथ्यते ॥ इत्युक्तलक्षण । 'तामिच्छावित्रहां देवों गुरुरूपां विभावयेत्' इत्यागम. । भवत्या त्वया यत्प्रदिष्ट कर्तव्यतयादिष्टं तत्साधने तस्य संपादने मे मतिः प्रज्ञा न सावधाना न जागरूका | अहो इति खेदे अव्ययम् । विस्कुरन्ती विस्फूर्जन्ती या वासना मनोमञ्जरी सा एव क्लेशपाशः दुःखजन्मा बन्धनरज्जु', तेन आवृतः निगडितः वम्भ्रमीमि इतस्ततः पर्यटामि । हे मातः ! आशु प्रसीद प्रसन्ना भव ।
५-लसत् विद्योवमानः यः भूरि बहलः सिन्दूरपूरः सिन्दूरप्रवाहः तस्य प्रकाशः उद्योतो यस्मिन् तत् । किमपि चेतोहारि, उद्यतः उद्गच्छतः, उद्दाममोदस्य प्रमोदातिशयस्य प्रवाहः परीवाहो यस्मिन् तत् । अकम्पा दृढा या अनुकम्पा तया परीतम् परिपूर्ण प्रसन्न प्रसादयुक्त भवत्याः स्वरूपं अरुणप्रभापूर ममान्तः अन्तरात्मनि चकास्तु उल्लसतु ।