________________
५४
दुर्गा - पुष्पाञ्जलिः
दशम- स्तवः ।
श्रये ! मातरव्याजकारुण्यपूर्णे !
पदं तावकं मामकं चित्तमेतु ।
जगद्वासनाभासनाधर्पणाभिः
परिक्लिष्टमालम्बमन्विष्यते
मनोभूतम श्रान्तमश्रान्तमेत्र,
भ्रमद्भ ूतसर्गेषु नो शंशमीति 1
न विन्देऽरविन्देक्षणे ! स्वास्थ्यभावं
वत् ॥१॥
भवत्याः प्रसादं समन्तात् प्रतीक्षे ||२||
शरण्ये ! भवत्या लभे येन पादं
न मय्यस्ति तादृग्गुणस्यांशकोऽपि ।
दशम- स्तवः ।
१- ये इति कोमलामन्त्रणे अव्ययम् । मातः ! जननि ! अव्याजं निर्मायं यत् कारुण्यं करुणारसप्रवाहः तेन पूर्णे ! भरिते ! मामकं मदीयं चित्तं तावकं त्वदीयं पदं चरणाम्बुजं एतु अधिगच्छतु । जगद्वासनाः संसारोत्था एषणापरपर्याया मनोभिलाषाः । तासां या भासना उद्दामविजृम्भणाः, तासां घर्षणाभिः अवमाननाभिः परिक्लिष्टं व्याकुलीभूतं मनः, अतएव मया तत् चरणरूपं लम् अवलम्वं अन्विष्यते मृग्यते ।
२- अश्रान्तं अशान्तं यत् मनोभूतं पिशाचस्वभावं मनः, दुर्निग्रहतया मनसो भूतत्वरूपणम् । भूतसर्गेषु पञ्चभूतान्तःपातिनीषु सृष्टिपरम्परासु श्रश्रान्तं निरर्गलं यथा स्यात् तथा भ्रमन् आहिण्डमान. नो शंशमीति सम्यक्तया नो शाम्यति । शाम्यतेर्यङ्लुगन्ताल्लट् | अरविन्दवत् ईक्षणं नयनं यस्याः सा तत्संबुद्धिः । कमललोचने इत्यर्थः । स्वास्थ्यभावं शमसुधोर्जितां श्रात्मनः स्वाभाविक स्थिति, न विन्दे नलभे । भवत्याः प्रसादं अनुग्रहं समन्तात् सर्वतः प्रतीक्षे आशोन्मुखः प्रतिपालये ।
३- शरणे साधुः शरण्या, तत्संबुद्धिः । शरणागतवत्सले ! येन यत्प्रभावेण भवत्याः पादं चरणशरणं लभे, ताच्कू तथाभूतः गुणस्य ज्ञानविनयादेः अंशकोऽपि लवोऽपि मयि नास्ते न वर्तते । सर्वथाहं गुणैः परिवर्जित इत्यर्थः ।