________________
नवम-स्तवः
पादावनीविवृतिवेदावलीस्तवननादामुदित्वरविप
च्छादापहामचलमादायिनी भज विषादात्ययाय जननीम् ॥४॥ एकामपि त्रिगुणसेकाश्रयान्पुनरनेकामिधामुपगतां,
पङ्कापनोदगततकाभिषङ्गमुनिशङ्कानिरासकुशलाम् । अङ्कापवर्जितशशाङ्काभिरामरुचिसंकाशवक्त्रकमलां,
मूकानपि प्रचुरवाकानहो विदधतीं कालिकां स्मर मनः ॥५॥ वामां गते, प्रकृतिरामां स्मिते, चटुलदामाञ्चलां कुचतटे,
श्यामां वयस्यमितभामां वपुष्युदितकामां मृगाङ्कमुकुटे ।
विपदः यः छादः छादनं तं अपहन्ति, ताम् । विपच्छायाप्रमाथिनीमित्यर्थः । अचला स्थिरा यामा लक्ष्मीः तस्याः दायिनीम् । जननी विषादात्ययाय खेदापगमाय भज सेवस्व ।
५-एकां अद्वितीयां अपि, त्रिगुणानां सत्वरजस्तमसां यः सेकः आर्दीकरणं, तदाश्रयात् तत्कारणात् पुनः अनेकाभिधां नानाभिधेयतां उपगतां प्राप्तां, असंख्यैर्नामभिरभिहितामित्यर्थः । पङ्कस्य पापस्य अपनोदगतः निवारणोत्त्य यः तङ्कः दुःखं तस्य अभिषगण पराभवेन 'अभिषङ्गः पराभवे' इत्यमरः । मुनीनां या मुक्तिविषयिणी शङ्का सन्देहः तस्य निरासे निरसने कुशला, ताम् । अङ्कापवर्जितः कलङ्करहित , य शशाङ्क चन्द्र' तस्य या अभिरामा हृद्या, रुचिः शोभा तत्सकाशं तत्तुल्यं वक्त्रकमलं मुखाम्बुजं यस्याः सा ताम् । मूकान वाक्शक्तिरहितानपि प्रचुरः वाकः येषां तान् वाचालान् विदधतों सम्पादयन्ती, हे मनः ! कालिकां श्यामां स्मर चिन्तय । दक्षिणदेशीयो मूककविसार्वभौमः अम्बाप्रसादात् 'मूकपञ्चशती' प्रणिनायेति लोकप्रसिद्धिः ।
६-गते गमने वामां मनोहरां, स्मिते ईषद्धसने प्रकृतिरामा नारीस्वभावां,कुचतटे स्तनतटे, चटुल चञ्चलं दाम एव अञ्चलं अंशुकं यस्याः सा ताम् । वयसि श्यामां षोडशवार्षिकी तरुणीम् । वपुषि शरीरे अमितः भामः क्रोघो यस्याः, सा ताम्। मृगाङ्क. चन्द्रः मुकुटे यस्य तस्मिन् महेश्वरे उदितः उदीर्णः कामः इच्छाविशेपो यस्या ताम् । मीमांसाम् वेत्ति अधीते वा इति मीमांसिका, ताम् , सिद्धान्तप्रतिष्ठापिकाम् । दुरितस्य या सीमा पराकाष्ठा तस्या अन्तिकां अन्तकरीम् । मयस्य