________________
दुर्गा-पुष्पाञ्जलिः मीमांसिकां, दुरितसीमान्तिकां वहलभीमां भयापहरणे -
नामाङ्कितां, द्रुतमुमां मातरं, जप निकामांहसां निहतये ॥६॥ सापायकांस्तिमिरकूपानिवाशु वसुधापान भुजङ्गसुहृदो
हापास्य मूढ ! बहुजापावसक्तमुहुरापाद्य वन्द्यसरणिम् ।। तापापहां, द्विपदकूपारशोषणकरी, पालिनी त्रिजगताम् ., .
पापाहिता, भृशदुरापामयोगिभिरुमां, पावनी परिचर ॥७॥ स्फारीभवत्कृतिसुधारीतिदां, भविकपारीमुदर्करचना-.'. . . . .
कारीश्वरी, कुमतिवारीमृषिप्रकरभूरीडितां, भगवतीम् ।
अपहरणे दूरीकरणे, बहलं भीमं यस्याः, ताम् अतिदारुणाम् । नामभिः सहस्रनाम्ना अङ्कितां निर्दिष्टाम् । उमां मातरं पार्वती, निकामानि पर्याप्तानि यानि अंहांसि दुरितानि तेषां निहतये अपनुत्तये द्रुतं जप सेवस्व । ...
७-हा इति खेदे अव्ययम् । मूढ ! मुग्धमते ! तिमिरस्य तमसः कूपान् गर्तानिव आशु अपायकैः सहिताः तान् , विनाशोन्मुखान् । भुजङ्गाः, विटाः सुहृदः सखायो येवां तान् । वसुधां पान्ति इति वसुधापाः भूभूजः तान् । अपास्य दूरमुत्सृज्य, बहु जापावसक्तः बहु विपुलं यथा स्यात् तथा जपनिष्ठः सन् , मुहुः भूयोऽपि, वन्द्यसरणिं लोकानुमतशासनाम् । तापं त्रिविधं संतापं अपहन्ति, ताम । द्विषतां शत्रूणां य. अकूपारः समुद्रः, तस्य शोषणकरीम् । त्रिजगतां त्रयाणां लोकानां पालनी योगक्षेमसम्पादिनीम् । पान्ति अस्मादात्मानं इति पापं तस्मै अहितां नाशकतया विरोधिनीम् । अयोगिभि. संयमादिशून्यै. इतस्ततो व्यासक्तचित्तश्च जनै भृशं अत्यन्तं दुरापां दुःखैकलभ्यां, पावनी पावित्र्यभूमि उमा शैलतनयाम् पार्वती परिचर परिचर्यापरो भव ।
८-स्फारीभवन्ती विकाशमुपगच्छन्ती याः कृतिः रचनारूपो गुम्फः, तस्यै सुधारीर्ति पीयूपप्रस्रवणं ददाति तथाभूताम् । भविक कल्याण तस्य पारी पयःपूरम्, लोके 'भारी' इति प्रसिद्ध जलपात्रं कल्याणकलशीमित्यर्थः । पारयति पार्यते वा 'पृ पूत्तौ' घम् डीप च । गर्गरीपूरयोः पारी' इति विश्वः । उदकस्य भाविन. कर्मफलस्य 'उदर्क एष्यत्कालीनफले मदनकण्टके' इति मेदिनी । या रचना निर्माण तस्य कारि शिल्पिनी, सा चासौ ईश्वरी स्वामिनी च ताम् । कुमतेः