________________
पटल:
[ ३७
बीजं व्याहृतिभिर्युतं' गृहयुगद्वन्द्व वसोः कोणगं दौर्ग बीजमनन्तरे लिपियुतैराबद्धगण्डं लिखेत् । । गायत्र्या रविशक्तिबद्धविवरं त्रिष्टुब्युतं तत् ततो , बीजं मातृकया धरापुरयुगे सत्सिंहचिन्तामणिः ॥ ५॥
यंत्रं दिनेशगुणितं प्रोक्त रक्षाप्रसिद्धिदम् । सर्वसौभाग्यजननं सर्वशत्रुनिवारणम् ॥ ५९॥
ब्रह्मसूत्रस्य प्रागग्रे विधाय पश्चिममत्स्यद्वययोस्तिर्यकसूत्रद्वयमास्फात्य पुनर्ब्रह्मसूत्रस्य पश्चिमाग्रे निधाय पूर्वदिङमत्स्योदरयोः सूत्रद्वयमास्फालयेत् । एवं कृते वह्निमण्डलद्वयं जायते ततो वृत्तं प्राचीसूत्रं च
मार्जयेदित्येवं पटकोणं कृत्वा तन्मध्ये शक्तिबीजमालिख्य तस्य रेफभागे साध्यनामालिख्य तस्येकारस्वरभागे .. साधकनामालिख्य रेफेकारयोरन्तरालं साधकांशे कर्म लिखेदित्येवं स्वाभिमतं विलिख्य मध्यस्थबीजोपरितो
वेष्टनप्रकारेण पञ्चधाशक्तिबीजं विलिख्य तद्वहिः पञ्चधा श्रीबीज पुनस्तबहिः पञ्चधा कामबीजं विलिख्य .. षट्कोणस्योर्ध्वगतकोणत्रये उत्तरमध्यदक्षिणक्रमेण शक्तिश्रीकामबीजानि प्रतित्रिकोणमेकैकं बीजं
साधकनामयुतं विलिख्याधोगतत्रिकोणत्रये तान्येव बीजानि विसर्गयुक्तानि ससाध्यनामानि दक्षिण... मध्योत्तरक्रमेण विलिख्य पस्वपि त्रिकोणोदरेषु सबिन्दु चतुर्थस्वरमीकारमालिख्य षट्कोणस्य
प्रतिकोणपार्श्वयोः 'हरिहर' इति द्वादशधा विलिख्य पटसु त्रिकोणानेषु प्रतित्रिकोणाग्रमेकमेकं शक्तिबीज विलिख्य पूर्ववदेकैकान्तरितं बध्नीयात्, उक्तं चाचार्यचरणैः “एकैकान्तरितास्तास्तु सम्बद्ध्युरितरेतरमिति" ततो बहिर्वृत्तत्रयं कृत्वा वीथीद्वयं निष्पाद्य तत्राभ्यन्तरवीथ्यां स्वानादि प्रादक्षिण्येन सबिन्दूनकारादिक्षकारान्तान् मातृकावर्णान् विलिख्य बहिर्वीच्या तानेव क्षकाराद्यकारान्तक्रमेण प्रादक्षिण्येन विलिखेत् , उक्तं च श्राचार्यचरणैः -
"वाह्य रेखामन्तराः स्युर्वर्णाः क्रमगताः शुभाः । तद्वहिः प्रतिलोमाश्च ते स्युलेखकपाटवात् ।" इति
ततो. बहिरष्टकोणं विधाय तस्य दिग्गतक्रमेण चतुष्के वक्ष्यमाणं नृसिंहबीजं विलिख्य विदिग्गते कोणचतुष्के वक्ष्यमाणं चिन्तामणिबीजं विलिख्याष्टकोणस्थरेखाष्टकप्रान्तषोडशके पोडशत्रिशूलानि कुर्यात् , उक्तञ्चाचार्यचरणैः
: 'बहिः षोडशशूलाई शोभनं व्यक्तवर्णवत्' इति । एतत् पड्गुणितं यन्त्रमुक्तफलदं भवति ॥ (सिं. सिं. पत्र ४१५) १. वृतं । ..
२. अस्यार्थ:-तत्र प्रागवत षटकोणमालिख्य तस्य सन्धिपटके त्रिकोणषटकं यथा व्यक्तं भवति तथा गुरूक्तयुक्त्या पट्कोणान्तरं विलिख्य तन्मध्ये प्रागवत साध्यसाधककर्मयुक्त शक्तिबीजमालिख्य तत्प्रतिलोमेन व्याहृतिभिर्वेष्टयेत् , तदुक्तमाचार्यैः
... : 'शक्ति प्रवेष्टयेच्च प्रतिलोमव्याहृतिभिरन्तस्थामिति' ततो द्वादशत्रिकोणोदरेषु दु इति दुर्गाबीजं विलिख्य तेष्वेव सानुस्वारं चतुर्थस्वरं लिखेत् , तदुक्तमाचार्यचरणैः- . : . ..