________________
३६ ]
सुवनेश्वरीपञ्चाङ्गम्
वीजान्तः स्थितसाध्यनाम शरशो मायारमामन्मथैवतं वह्निपुरद्वये रसपुटेष्वापाढवी जत्रयम्' । स्वात्मानात्मकमीप से हरिहरैराव ढगण्डं वहिः पडवीजैरनुबद्धसन्धिलिपिभिवीतं गृहाभ्यां तु वः ॥ ५६ ॥ चिन्तामणिनृसिंहाभ्यां लसत्कोणमिदं लिखेत् । यंत्रं षड्गुणितं दिव्यं वहतां सर्वसिद्धिदम् ॥ ५७ ॥
अत्रापि सम्पदे देव यथाविधि समाहितः । हृल्लेखाद्याः समभ्यर्च्य पूर्ववत् साधकः स्वयम् । अङ्गानि पूजयेत् पश्चाद गायत्र्याद्याः प्रपूजयेत् ॥ प्रागग्रवीजे गायत्री सावित्रीं दक्षिणालगे । सरस्वतीं मारुतस्ये ब्रह्माणं वह्निगे तथा ॥ वारुणे विष्णुमीशं च यजेदीशे ततो वहिः । ब्रह्माण्याद्या लोकपालास्तवाहो कुलिशादयः ॥
एव' त्रिगुणिते देवीं पूजयेत् साधकोत्तमः ॥ [ सिं. सिं. पत्र ४१४ ] १. श्रालिख्य बीजत्रयम् । २. सात्मा । ३. मीशिखं । ५. " वहि: पोडशशुलाङ्गमतीव च मनोरमम् ।
४. भुवः ।
तत्वगुणितं यन्त्रं सर्वसिद्धिकरं परम् ॥ १ ॥ अत्र देवों यजेन्मंत्री यद्यस्योपरिशोभनम् । पद्मं द्वादशपत्रं च पविंशत्केसरान्वितम् ॥ २ ॥ बहिश्च राश्यादिकेन युक्तं कुर्यान्मनोहरम् । नवशक्तियुतं पीठं संपूज्यावाह्य देवताम् ॥ ३ ॥ संपूजयेत् चन्दनाद्यैरुपचारैश्च पूर्ववत् । प्रोक्तवच्च षड्ङ्गानि मिथुनानि च संयजेत् ॥ ४ ॥ बहिर्द्वादशशक्तीश्व रक्ताद्याः संयजेत् क्रमात् । रक्ता चानङ्गकुसुमा नित्या च कुसुमातुरा ॥ ५ ॥ अनङ्गमदना तद्वद् भवेच्च मदनातुरा |
गौरी च गगना तद्वद् रेखान्तं गगनं पदम् ॥ ६॥ अनेन विधिना मंत्री योऽर्चयेद्भुवनेश्वरीम् ।
:
स लक्ष्मीनिलयो भूयात् त्रिदशैश्चाभिवन्दितः ॥ ७ ॥ देहान्ते शिवसायुज्यं स प्राप्नोति सुनिश्चितम् ।" इति सिंहसिद्धान्त सिन्धौ विशेषः ॥ -
६ श्रस्यार्थः- तत्र स्वेष्टमानभ्रमेण वृत्तं कृत्वा तत्र प्राक् प्रत्यब्रह्मसूत्रमास्फाल्य तदग्रयोः सन्धिमवष्टभ्यं वृत्तार्धपरिमाणेन सूत्रेण वृत्तसंदष्टं मत्स्यद्वयं मत्स्यद्वयं दक्षिणोत्तरयोः कुर्यात् । एवंकृते मत्स्यचतुष्कं संपन्न ं भवति, ततः पूर्वमत्स्यद्वये पश्चिममत्स्यद्वये च दक्षिणोत्तरं तिर्यक्सूत्रयमास्फाल्य :