________________
[३५
.. पटलः . ब्राह्मणान् वशयेच्छीघ्रं पार्थिवान् पद्महोमतः। । ... पलाशपुष्पैस्तत्पनीमंत्रिणः कुसुमैरपि ॥४७॥ पञ्चविंशतिसंजप्त जलैः स्नाने दिने दिने । . .
आत्मानमभिषिञ्चयः सर्वसौभाग्यवान् भवेत् ॥ ४८॥ पञ्चविंशतिसंजप्त जलं प्रातः पिबेन्नरः । अवाप्य महतीं प्रज्ञां कवीनामग्रणीभवेत् ॥ ४६॥ कर्पूरागरुसंयुक्तं कुकुमं साधु साधितम् । गृहीत्वा तिलकं कुर्याद्राज्य वश्यमनुत्तमम् ॥ ५० ॥ शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम् । . जप्त्वा प्रतिष्ठितप्राणां भक्षयेद्रविवासरे ॥५१॥ वशं नयति राजानं नारी वा नरमेव च । कण्ठमात्रोदके स्थित्वा वीक्ष्येत खगतं रविम् ॥ ५२ ॥ त्रि सहस्र जपेन्मत्रं इष्टकन्यां लभेत सः। . अन्नं तु मंत्रितं मन्त्री भुञ्जीत श्रीप्रसिद्धये ॥ ५.३ ॥... ... ... लिखित्वा भस्मनाऽमायां सुसाध्या फलकादिषु । तत्कालं च लिखेद्य सुखं सूयति' गर्भिणी ॥ ५४॥ शक्त्यन्तःस्थितसाध्यकर्म भुवने" वह्नवृतं वहिभि-१२. बाह्ये कोणगतेयुतं * हरिहरैवर्णैः कपोलार्पितैः। पश्चात्तैः पुनरीयुतैलिपिभिरप्यावीतमिष्टाक्षरः ...,
यंत्रं भूपुरमध्यगं त्रिगुणितं सौभाग्यसम्पत्प्रदम् ॥ ५५ ॥ . १. कुमुदैरपि । २. नित्यं । ३. अवश्यं । ४. राज । . ५: जप्तां । ६. वीच्य तोयगतं । ७. लिखितां । ८. तत्काले । : १. दर्शयेद्यन्त्रं ।. १० सूयेत । ११. भवने (सिं. सिं.) १२. शक्तिभिः (सिं. सिं.)। १३. मिष्टार्थदं (सिं. सिं.)। . .
* कोणगतेयुतमिति कोणगतेन ईकारेण युतमित्यर्थः, सविन्दुनेति सम्प्रदायः, अस्यार्थः-इन्द्ररक्षोवायुदिग्गतकोणत्रयव्यस्रमग्निमण्डलं विधाय तन्मध्ये भुवनेश्वरीबीजं विलिख्य तस्य रेफस्थाने साध्यनाम ईकारस्थाने साधकनाम तयोर्मध्ये कर्म च विलिख्य तद्भुवनेश्वरीबीजैरावेष्टय त्रिकोणस्य कोणत्रयाभ्यन्तरे सबिन्दुकमीकारं विलिख्य त्रिकोणाग्रेषु भुवनेश्वरीबीज प्रतिकोणं विलिख्य तेषां त्रयाणामेकैकबीजस्य रेफेण तत्तद्वीजं प्रदक्षिणीकृत्याऽन्योन्यस्येकाराम परस्परं बध्नीयात् । ततः कोणत्रयपार्श्वयोः 'हरिहर' इति वर्णचतुष्टयं विलिख्य बहिवृत्तनयं कृत्वा तन्मध्यगतवीथीद्वये प्रथमवीच्यां त्वाग्रादिप्रादक्षिणेन 'हरि ई हर ई' इति वर्णैः पुनः पुनलिखितैरावेष्टय द्वितीयवीथ्यां अकारादिक्षकारान्तैः सबिन्दुकैर्मातृकाक्षरैः स्वाग्रादिप्रादक्षिण्येन चेष्टयित्वा सर्ववाद्ये चतुरस्र कुर्यादेतद्यन्त्रमुक्तफलदं भवति, तथा च