________________
३८ ]
भुवनेश्वरीपञ्चाङ्गम्
9
लिखेत सरोजं रसपत्रयुक्त मध्ये दलेष्वप्यभिलिख्य मायाम् । स्वरावृतं यंत्रमिदं वधूनां पुत्रप्रदं भूमिगृहान्तरस्यम् ॥ ६० ॥ पट्कोणमध्ये प्रविलिख्य शक्तिं कोणेषु नामैव विलिख्य भूयः । स साध्यगर्भं वसुधापुरस्थं यंत्रं भवेद्वश्यकरं नराणाम् ॥ ६१ ॥ वाग्भवं शम्भुवनितार मावीजत्रयात्मकम् ।
3
मंत्रं समुद्धरेन्मंत्री त्रिवर्गफलसाधनम् ॥ ६२ ॥ पडदीर्घभाग्बीजेन वाग्भवाद्येन कल्पयेत् । षडङ्गानि मनोरस्य जातियुक्तानि मंत्रवित् ॥ ६३ ॥ कुर्यात् पूर्वोदितान् न्यासान् चिन्तयेदपि साधकः । सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यां मणिपूर्ण रत्नचपकं रक्तोत्पलं विभ्रतीं सौम्यां रक्तघटस्थसन्यचरणां ध्यायेत् परामम्बिकाम् ॥ ६४ ॥
'रविकोणेषु दुरन्तां मायां लिखेदद्यात्र विन्दुमतीमिति' ततो द्वादशत्रिकोण पार्श्वद्वये प्रतिपार्श्वमेकमिति क्रमेण वैदिकगायत्र्याश्चतुर्विंशतिवर्णान् सबिन्दून् प्रादक्षिण्येन प्रतिलोमगतान् विलिखेत्, उक्तञ्चाचार्यंचरणै: - 'गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलमिति' ततः पूर्ववद्वादश त्रिकोणाग्रेषु शक्तिबीजानि विलिख्य तानि परस्परं पूर्ववदेकान्तरितं बध्नीयात् तद्द्बहिर्वृ तद्वयं विधाय तयोरन्तरालगत वीथ्याम् —
"जातवेदसे सुनवाम सोममरातीयतो निं दहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ' ऋग्वेदः १/७/७/१
इति न्निष्टुभमंत्रस्य . सबिन्दुभिर्वर्णैः प्रतिलोमेन वेष्टयेत्, उक्तञ्चाचार्यचरणैः
'वहिश्च रचयेद्भूयस्तथा त्रिष्टुभमिति'
तन्त्र श्रीपद्मपादाचार्यव्याख्या-- तथा त्रिष्टुभमिति प्रतिलोमेनेत्यर्थः । ततः प्राग्वदनुलोममातृकया विलोममातृकया च संवेष्टय तदवहिरष्टकोणं कृत्वा प्राग्वत्तत्तत्कोणेषु नृसिंहबीजं चिन्तामणिबीनं च विलिख्य तथैव पोडशशूलयुक्तं कुर्यादित्येतद्यन्त्रमुक्तफलदं भवति । (सि. सि. पृ. ४१६ )
१. श्रस्यार्थः, भूर्जादौ पड्दलकमलं विधाय तन्मध्ये ससाध्यं शक्तिबीजमालिख्य षट्सु दलेष्वपि शक्तिबीजमेवालिख्य तद्बहिवृ तद्दयं विधाय तयोरन्तराले सबिन्दुभिः पोडशस्वरैरावेष्ट्य चिरकुर्यात् । एतयंत्रमुक्तफलदम् । (सिं. सिं. पृ. ४१६ )
२. श्रस्यार्थः, प्राग्वत् पट्कोणं विधाय तन्मध्ये तत्कोणेषु च ससाध्यं शक्तिबीजमालिख्य तद्बहिश्चतुरस्रं कुर्यात्, एतयंत्रमुक्तफलदम् । (सि. सि. पृ. ४१६ )
३. चांग्भवं एं, शम्भुवनिता हीं, रमावीजं श्रीं इति । .