________________
[ २७
प्रबोधिनीटीकासहितम्
इदानी परमेश्वर्या दयालुत्त्वमाह__इत्थं प्रतिक्षणमुदश्रुविलोचनस्य .. पृथ्वीधरस्य पुरतः स्फुटमाविरासीत् । ... दत्त्वा वरं भगवती हृदयं प्रविष्टा - शास्त्रैः स्वयं नवनवैश्च मुखेऽवतीर्णा ॥ ४१ ॥ ____ इत्थमिति-इत्थं अनेन प्रकारेण गुरुस्मरणादितः' प्रतिक्षणं क्षणं क्षणं प्रति उदश्रुविलोचनस्य अत्यर्थं निर्यदश्रलोचनस्य' पृथ्वीधरस्य पुरतोऽग्रे स्फुटं प्रकटं यथा भवति तथा भगवती भुवनेश्वरी आविरासीत् प्रकटीवभूव । किम्भूता वरं दत्वा इदयं प्रविष्टा, पुनः किम्भूता च पुनः भगवती स्वयं स्वयमेव नवनवैर्गद्यपद्यादिमयैः शास्त्रैः कृत्वा मुखेऽवतीर्णा विस्तारं प्राप्ता ॥ ४१ ॥
___ इदानीं स्तोत्रविषये प्रसादमाह- वाक्सिद्धिमेवमतुलामवलोक्य नाथः
...... श्रीशम्भुरस्य महतीमपि तां प्रतिष्ठाम् । .: स्वस्मिन् पदे त्रिभुवनागमवन्द्यविद्या...... सिंहासनकरुचिरे सुचिरं चकार ॥ ४२ ॥ .... वागिति-अस्मिन् लोके नाथः श्रीशम्भुः अस्य स्तोत्रस्य वासिद्धिं अतुला बहुलां मे वाचं अवलोक्य अस्मिन् स्थाने चिरं यथा भवति तथा तां पाठमात्रतो' हि सकलसिद्धिविधायिनी महीयसी महती प्रतिष्ठां चकार । किम्भूते स्वस्मिन् पदे त्रिभुवनागमवन्धविद्यासिंहासनैकरुचिरे त्रिभुवने यानि आगमशास्त्राणिं तैर्वन्ध स्तुत्यं विद्यासिंहासनं यत् तेनैकरुचिरं सुन्दरं तस्मिन् तथेति ।। ४२ ।।
. इदानीं मन्त्रजपसमये विधानमाहभूमौ शय्या वचसि नियमः कामिनीभ्यो निवृत्तिः ............ मातात
. प्रातर्जातीविटप समिधा दन्तजिह्वाविशुद्धिः।
१. ख. ग. गुरुस्मरणादिना । . २. ग. अश्रुपूर्णविलोचनस्य । ३. ख. महतीमिह । ....... ४. ख. स्वस्मिन् । ५. ख. ग. पठनमात्रतो। ६. ख. तस्मिन् । ७. ख. विटपि ।