________________
.२६ ]
भुवनेश्वरीमहास्तोत्रम् तस्येति-हे भुवनेश्वरि ! वेदगर्भ ! यतः मयि विषये सः श्रीशम्भुः चेतः सुप्रसन्नं मनश्चकार अनेनैव हेतुना सद्यः तत्कालं त्वं प्रसीद प्रसादपरा' भव । । तस्मात्प्रसादानन्तरं मम वदने वचसां वाणीनां विलासैः सन्निधेहि सन्निधानं कुरु । किम्भूतैः विलासैः स्तुतिपदैः स्तवनानुरूपैः, पुनः किम्भूतैर्विलासैः तस्याज्ञयापरिणतान्वयसिद्धविद्याभेदास्पदैः आज्ञया परिणतः परिणाम प्राप्तः योऽन्वयः . आम्नायो गुरुक्रमः तत्र सिद्धविद्यानां भेदास्पदानि भेदस्थानानि तैः तथा ॥ ३८॥ .
अथेदानी भगवत्याः प्रार्थनामाहयेषां परं न कुलदैवतमम्बिके त्वं
तेषां गिरा मम गिरो न भवन्तु मिश्राः । ... तैस्तु क्षणं परिचिते विषयेऽपि वासो.. ...
मा भूत्कदाचिदपि सन्ततमर्थये त्वाम् ॥ ३६॥ . येषामिति-हे सर्वेश्वरि ! सन्ततं निरन्तरं त्वां अहं अर्थये प्रार्थयामि इतीति किं हे अम्बिके ! येषां पुरुषाणां परं अत्यर्थं त्वं न कुलदैवतमसि तेषां पुरुषाणां गिरा सह मम गिरो वाण्यः मिश्राः न भवन्तु, पुनः तै पुरुषैः सह विषये देशे परिचितेऽपि परिचयं प्राप्तेऽपि अभ्यासं प्राप्तेऽपि पितृपितामहप्रपितामहादिनिवासावनौ क्षणं क्षणमात्रं कदाचिदपि वासो माभूत् मास्तु ।। ३६ ॥
इदानीं गुरुमभ्यर्थयन्नाह-" श्रीशम्भुनाथ ! करुणाकर ! सिद्धिनाथ !
श्रीसिद्धिनाथ ! करुणाकर ! शम्भुनाथ !. .... सर्वापराधलिनेऽपि मयि प्रसन्नं . .
चेतः कुरुष्व शरणं मम नान्यदस्ति ।। ४० ।। ....... श्रीशम्भुनाथेति-हे श्रीशम्भुनाथ ! हे करुणाकर सिद्धिनाथ ! हे श्रीसिद्धिनाथ करुणाकर शम्भुनाथ ! सर्वापराधमलिनेऽपि निखिलापराधकलुपीकृतेऽपि मयि : विपये चेतो मनः प्रसन्नं सदयं कुरुष्व, यतः कारणात् मम किञ्चिदन्यदपि शरणं . नास्ति ।। ४० ॥
ख. प्रसता भव । २. ख, तस्य श्रीशम्भोः । ३. ग. भवन्ति । ४. ग. परिचितिर्विषये । . ५. ख. कदाचिदिति । ६. ख. पितृपितामहाद्यावासेऽवनौ । ७. ख. गुरुवर प्रार्थयन्नाह। ८. ग. मलिने मयि सुप्रसन्नं । ..