________________
प्रबोधिनीटीकासहितम्
[ २५
हे मातः हे कृपाकोमले, हे ' विश्वेश्वरि संप्रसीद सम्यक् प्रसादं कुरु यतो मे मम वत्तः परं अन्यत् किमपि शरणं नास्ति । किंकृत्वा इति ज्ञात्वा इतीति किं हे जननि वं मम मातापितरौ जननीजनको, एव शब्दोऽत्र निर्धारणे, पुनः सुहृदो मित्राणि वमेव भ्रातरो बान्धवास्त्वमेव त्वमेव सखा सहचरः विद्याश्चतुर्दशविद्यास्त्वमेव तत् उदारकी र्तिचरितं प्रभूतकीर्तिप्रवर्त्तनं त्वमेव । अत्यद्भुतं प्रचुरतरं भाग्यं त्वमेव । यः किं पुनरपि किमुच्यते सकलमीहितं निखिलं वान्छितं त्वमेवेति ॥ ३६ ॥
इदानीं परमसिद्धिकारकं गुरोर्नामाह
श्री सिद्धिनाथ इति कोपि युगे चतुर्थे प्राविभूव' करुणावरुणालयेऽस्मिन् । श्रीशम्भुरित्यभिधया स मथि प्रसन्नं * चेतश्चकार सकलागमचक्रवर्त्ती ।। ३७ ।।
४
श्रीसिद्धिनाथेति - करुणावरुणालये करुणया युक्ते वरुणालये ग्रामविशेषे नर्मदातटनिकटवर्त्तिनि श्रीसिद्धिनाथ इति कोपि चतुर्थे युगे कलियुगे प्रादुर्बभूव किम्भूतः तस्मिन् श्रीसिद्धिनाये अभिधया श्रीशम्भुरिति सः मयि विषये चेतो मनः प्रसन्नं चकार स्नेहं कृतवान् । पुनः किम्भूतः श्रीशम्भुः सकलागमचक्रवर्ती सकलागमचक्रे वर्त्तत इति किम्भूते अस्मिन् श्रीसिद्धिनाथे करुणावरुणालये कृपासागरे इत्यर्थः इति तु अस्मिन्नित्यस्य पदस्य विशेषणं संपनीपद्यते ।। ३७ ।।
७
९
११
इदानीं कृपावाहुल्यं विरचयन्नाह - '
१०
तस्याऽऽज्ञया परिणतान्वयसिद्धविद्याभेदास्पदैः स्तुतिपदैर्वचसां विलासैः । तस्मादनेन भुवनेश्वरि वेदगर्भे
सद्यः प्रसीद वदने मम सन्निधेहि || ३८ ॥
4:
१. ख. श्री । २. ग. सकलं ।
३. ख. ग. प्रादुर्बभूव । ४. ग. प्रकटोऽभूत् । ६. ख. सस्नेहं । ७. सकलेप्वागमेषु चक्रवर्ती
मग सिद्धस्यापि । ६ ख तस्य ।
१०. ग. क्रियाबाहुल्यं ।
५
मयि सुप्रसन्नं । सर्वतन्त्र स्वतन्त्र इति । ११, ख. विशयन्नाह ।