________________
२४]
भुवनेश्वरीमहास्तोत्रम् एवमिति-हे मातः ! ते पुरुषाः मृत्योः कृतान्तस्य' कवलीकृतत्रिभुवनाभोगस्य .. कवलीकृतं ग्रासीकृतं यत् त्रिभुवनं तस्य आसमन्ताद्भावेन भोगो यस्य तथा तस्य, ते के तु पुनः ये पुरुषाः एवं विधां पूर्वलक्षणां अमृतेश्वरी मोक्षदात्री त्वां साक्षात् अनुदिनं निरन्तरं यजन्ते, किस्मृतां त्वां राकानिशाकामुकस्यान्ते सन्ततभासमानवपुपं राकायाः । पूर्णिमायाः निशाझाकस्य चन्द्रस्य अन्तः मध्ये सततं भासमानं वपुः शरीरं । यस्याः सा तथा ताम् ।। ३४ ।।
इदानी परमेश्वर्या मृत्युञ्जयमनोनिमाहजाग्रद्बोधसुधामयूखनिचयैराप्लाव्य सर्वा दिशो.
यस्याः कापि कला कलङ्करहिता षट्चक्रमांकामति । दैन्यध्वान्तविदारणैकचतुरा वाचं परां तन्वती ..
सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे ।। ३५ ॥ जाग्रदिति-सा नित्या चिद्रूपा भुवनेश्वरी ह्रींकाररूपा मन्मानसे मदीये चित्ते विहरतां क्रीडतां, केव हंसीव यथा हंसी मानसे सरसि विहरति तथा सा का यस्याः भुवनेश्वर्याः कलङ्करहिता कापि कला तुरीयावस्था पट्चक्रमाक्रामति षट्चक्राणि विभिद्य सद्य ... उदिता भवति, किं कृत्वा सर्वाः दिशः आप्लाव्य व्याप्य कै जाग्रद्बोधसुधामयूखनिचयैः जाग्रत् जाग्रदरूपो यो बोधो ज्ञानं सैव सुधा तस्याः ये मयूखनिचयाः किरणसमूहाः तैः । किम्भूता कला दैन्यध्वान्तविदारणैकचतुरा दैन्यमज्ञानं तदेव ध्वान्तं .. गाढान्धकारं तद्विदारणे तन्निराकरणे एकचतुरा एका प्रवीणा, पुनः किम्भूता कला : परां वाचं तन्वती पराभिधां वाणीं तन्वती विस्तारयन्ती ॥ ३५ ॥ .......
- इदानी परमेश्वर्या अनन्यपरत्वेनाहत्वं मातापितरौ त्वमेव सुहृदस्त्वं भ्रातरस्त्वं सखा
त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम् । किम्भूयः सकलं त्वमीहितमिति ज्ञात्वा कृपाकोमले - श्रीविश्वेश्वरि संप्रसीद शरणं मातः परं नास्ति मे ॥ ३६ ॥
१. ख. मौलौ शिरसि वामं पादं दत्वा भोगसागरे तैत्तैः धनकलत्रपुत्रंहयराजमानादिभिः ..... ___ सुखैः निरवधि यथा भवति तथा क्रीडन्ति विलसन्ति किम्भूतस्य मृत्योः कंवलीकृत
त्रिभुवनाभोगस्य.........। २. ख. पूर्वोक्तलक्षणां । ३. ख. यजन्ति । ..... . ख. इन्दोः। ५. ख. मृत्युञ्जयनाम ध्यानमाह; ग, मृत्युञ्जयमनोर्ध्यानमाह । ...
६. ख. क्रीडां कुरुवाम्, ग. करोतु । ...