________________
प्रबोधिनीटीकासहितम्
[२३ अथेदानी भगवत्या मृत्युञ्जयमन्त्राराधनमाह'श्रीमृत्युञ्जयनामधेयभगवञ्चैतन्यचन्द्रात्मिके
..हींकारि' प्रथमातमांसि दलय त्वं हंससंजीविनि। . जीवं प्राणविजृम्भमाणहृदयग्रन्थिस्थितं से कुरु
- त्वां सेवे निजबोधलाभरभसा स्वाहाभुजामीश्वरीम् ॥३३॥ . श्रीति-हे मृत्युञ्जयनामधेयभगवञ्चैतन्यचन्द्रात्मिके ! हेहीकारि ! हे हंससञ्जीविनि' अहं निजबोधलाभरभसा स्वज्ञानप्राप्तिरभसत्वेन हर्षेण त्वां स्वाहाभुजां देवानामीश्वरीम् सेवे आश्रये ! अतः कारणात् त्वं मे मम प्रथमातमांसि पूर्वाणि अज्ञानादीनि दलय विदारय । प्रथमातमासीत्यत्र छन्दसि डिश्योर्वा लोप इति शिलोपः चकारोऽत्राध्याहर्त्तव्यः । च पुनः मम जीवं प्राणविजृम्भमाणहृदयग्रन्थिस्थितं प्राणवायुना विजृम्भमाण उत्फुल्लितो यो हृदयग्रन्थिः तत्र स्थितं आश्रितं कुरु ।' मृत्युञ्जयमनुर्यथा ॐ श्रीं ह्रीं मृत्युञ्जये भगवति चैतन्यचन्द्रे हंससंजीविनि स्वाहेति ॥ ३३॥
इदानीं मृत्युञ्जयनाम ध्यानमाह"एवं त्वाममृतेश्वरीमनुदिनं राकानिशाकामुक
स्वान्ते" सन्ततभासमानवपुर्ष साक्षाद्यजन्ते तु ये । - ते मृत्योः कवलीकृतत्रिभुवनाभोगस्य मौलौ पदं
दत्त्वा भोगमहोदधौ निरवधि क्रीडन्ति तैस्तैः सुखैः॥३४॥
१. ग. मनुनाऽराधनमाह । २. ग. हींकार । ३. ग. संजीवनि । ४. ग, मृत्युञ्जय इति - नामधेयं यस्या ईदृशी भगवतः शम्भोश्चैतन्यमेव चन्द्रिका प्रकाशकत्वात् तत्सरूपे । ५. ग. हे हंससंजीवनि ! हंसं निर्गुणं ब्रह्म जीवयति जीवाऽभिधं सम्पादयति तस्याः सम्बोधनम् । ६. यतः चन्द्रास्मिका हीकारः प्रथमो यस्याः सा एवं भूता स्वं मम तमांस्यज्ञानानि, हीकारि
प्रथमातमांसीति पाठे शिलोपः। ७. ख. यद्वा प्रथमे आये अत्र कोपि न दोपः । ८. मृत्युञ्जयमन्त्रोद्धारपक्षेतु श्रीमृत्युञ्जये इति नामधेये भगवच्छब्दारिमके ततश्चैतन्यचन्द्रशब्दात्मिके
हीकारः प्रथमादक्षरात् श्रीकारोत्तरो यत्र स्वाहाशब्दः भुजो यस्याः भक्तदत्तव्यग्रहणाय
तद्वान्छितदानाय च । १, 'ख' पुस्तके प्रणवो नास्ति मंत्रेऽस्मिन् । १०. ख. ग. परमेश्वर्या मृत्युञ्जयस्य फलमाह । ११. ग. स्यान्तः संतत......