________________
[ १६
भुवनेश्वरीमहास्तोत्रम्
इदानीं भगवत्या बोजस्थानान्तर फलञ्च' वृत्तयुगले नाह— लेखाभिस्तु हिनद्युतेरिव कृतं वाग्बीजमुच्चैः स्फुरत् ताराकारकरालविन्दुपरितो माया त्रिधा वेष्टितम् । पूर्णेन्दोरुदरे तदेतदखिलं पीयूष गौराक्षरं
स्रोतः संभ्रमसंभृतं स्मरतिं यो जिह्वाञ्चले निश्चलः ॥ २१ ॥
तस्य त्वत्करुणाकटाक्षकणिकासंक्रान्तिमात्रादपि
स्वान्ते शान्तिमुपैति दीर्घजडता जाग्रद्विकाराग्रणीः । तस्मादाशु जगत्त्रयाद्भुतर साद्वैत प्रतीतिप्रदं
सौरभ्यं परमभ्युदेति वदनाम्भोजे गिरां विभ्रमैः ॥ २२ ॥
लेखेति-हे मातः यः पुमान् वाग्बीजं ऐंकारं तुहिनद्युतेश्चन्द्रमसो लेखाभिः कृतमिव पुनः उच्चैरुपरि स्फुरत् यः तारायाः आकारवत् करालो मनोहरो यो बिन्दुः अनुखारों यस्य तत् तथा ततः परितो मायात्रिधावेष्टितं परितः समन्ताद्भावेन मायया मायावीजेन लोमप्रतिलोमतो हि त्रिधा त्रिप्रकारं वेष्टितं ततस्तदेतत् अखिलं समग्र पूर्णेन्दोरुदरे सम्पूर्णचन्द्रमध्ये पीयूपगौराक्षरं अमृतधवलवर्ण अपरं स्रोतः संभ्रमसंभृतं स्रोतः प्रवाहः तस्य संभ्रमो विलासः तेन संभृतं व्याप्तं स्तिमितो निश्चलः सन् जिह्वाश्वले रसनाग्रे स्मरति ध्यायति तस्य पुरुषस्य अपि निश्चितं स्वान्ते मानसे दीर्घजडता शान्ति नाशं उपैति कस्मात् तस्य त्वत्करुणाकटाक्षकणिकासंक्रांतिमात्रात् त्वत्करुणाकटाक्षवीक्षणमात्रात्, किंम्भूता दीर्घजडता जाग्रद्विकाराग्रणी : जाग्रतोऽपि उद्बोधरूपा ये विकाराः विकृतयः " तेषां मध्ये अग्रणीः अग्रेसरः इत्यर्थः । तस्मादित्युपसंहारे । आशु शीघ्र बदनाम्भोजे मुखकमले परं उत्कृष्टं सौरभ्यं अभ्युदेति उदयं प्राप्नोति । किं गिरां विभ्रमैः वाचां विलासः किम्भूतं सौरभ्यं जगत्त्रयाद्भुतरसाद्वै तप्रतीतिप्रदं जगत्त्रयस्य श्रद्भुतरसः तस्य अद्वैतप्रतीतिः अद्वितीयज्ञानं तां प्रददातीति तत् तथा अथवा जगत्त्रयाद्भुतरसाद्वै तप्रतीतिप्रदैरिति वा पाठान्तरे गिरां विभ्रमैरित्यस्य पदस्य विशेषणं भवितुमर्हति ॥ २२ ॥
५
१. ख. बीजस्थानं तत् फलं च । २. ग. प्रदेः । ३. ख. त्रिःप्रकारेण ।
४. ख, ग पूर्णचन्द्रमध्ये | २. अनाचाराः, इति 'ग' प्रतौ विशेषः ।
६. सुन्दरत्वमिति ग. प्रतौ विशेषः । ७. ख. ग. कैः । ८. ख. तत् । ६, ख, विशेषणी ।