________________
प्रबोधिनीटीकासहितम्
[ १५
श्रम्भोरुहं च विभ्राणां दक्षिणाधः करक्रमेणात्र मन्तव्यम् | अधोदक्षिणकरेण वीणां वामाधः करेण पुस्तकं दक्षिणोदकरेण सूत्रं वामोर्ध्वरेणाम्भोरुहं दधानां, किम्भूतमम्भोरुहं व्याजृम्भं उत्फुल्लमित्यर्थः । किं विशिष्टैः करतलैः अरुणांशुभिः रक्तकान्तिभिः पुनः किम्भूतां गिरं आविर्भवद्विभ्रमां अविर्भवन् प्रकटीभवन् विभ्रमो . विलासो यस्याः सा तथा ताम् । सुकरतया मन्त्रो यथा ऐं ह्रीं वंद वद वाग्वादिनी' स्वाहा ।। १६ ।।
3
इदानीं भगवत्या जपध्यानतः फलमाहतन्मातः कृपया तरङ्गयतरां विद्याधिपत्यं मयि
ज्योत्स्ना सौरभ चौरकी र्तिकविता से व्यैक सिंहासनम् | कालाज्ञादि शिवावसानभवन" प्राग्भारकुक्षिं भरि
प्रज्ञाम्भः परिपाकपीवर परांऽनन्दप्रतिष्ठास्पदम् ॥ २० ॥ तन्मातरिति - हे मातः तत् तस्मात् कारणात् त्वज्जपध्यानतः मयि विषये विद्यानामाधिपत्यं तरङ्गयतरां अत्यर्थं प्रकटय कया कृपया अनुकम्पया किम्भूतं विद्याधिपत्यं ज्योत्स्नासौरभचौरकीर्त्तिकविता से व्यैकसिंहासनं ज्योत्स्ना चन्द्रिका तस्याः यत्सौरभं मनोहरत्त्वं तस्य या चौरवत् कीर्तिरेवंविधा या कविता एतावता चन्द्रिका सौन्दर्यसदृशा ' या कविता तया सेव्यं एक सिंहासनं यस्य तत् तथा पुनः किम्भूतं विद्याधिपत्यं कालाज्ञादिशिवावसानभवनप्राग्भार कुक्षिंभ रिप्रज्ञाम्भः परिपाकपीवरपराऽनन्दप्रतिष्ठास्पदं " कालस्य ईश्वरस्य यदाज्ञाप्रारम्भः अभ्यासः ज्ञानं चेति श्रादिशब्देनोपलभ्यते, शिवावसानमिति तत्त्वज्ञानप्राप्तिः कालाज्ञादि तदेव शिवावसानं तस्य यद्भवनं उत्पत्तिः" तस्य यः प्राग्भारः पूर्वस्थितिः तस्य यत् कुक्षिंभरिप्रज्ञाम्भः प्रज्ञाबहुलतरं ज्ञानोदकं तस्य यः परिपाकः परिणामः तस्य यः पीवरपराऽनन्दः पीनपराऽनन्दः तस्य या प्रतिष्ठा संस्था तस्या: आस्पदं स्थानम् ॥ २० ॥
१ 'ख' पुस्तके श्रयं न ।
.
२. ख वाग्वादिनि । ३. ख, ग, मन्त्रजपध्यानतः । ४. ख, कालाग्न्यादि । ५. ख भुवन । ६. ख, ग, विद्यानामधिपतित्वं ।
७. ग. घटय ८. ख. ग. सदृशी । ६. यद्वा कीर्तिकवितयोर्द्वन्द्वः इति 'ग' पुस्तके विशेषः । १०, ख, कालाग्निः प्रलयरुद्रः स श्रादिर्यस्य तथा शिवः श्रवसानं विरामस्थानं यस्य भुवनस्य अनेन शिवस्य पञ्चकृत्यता कथिता एवंविधस्य भुवनस्य यः प्राग्भारः भरणरूपा या प्रास्थितिः विष्णुधर्मः पालनतेत्यर्थः तस्य प्राग्भतुः विष्णोर्या कुभिरिता प्रज्ञा सैवाम्भः उदकं तस्य यः परिपाकः परिणामावस्था तस्य यः पीवरानन्दः तस्य या प्रतिष्ठा तस्याः "श्रास्पदं स्थानम् । ११. ग. उपपत्तिः ।