________________
१२ ]
भुवनेश्वरीमहास्तोत्रम् वृत्तिर्वर्त्तनं यस्य तत् तथा । अथवा प्रत्यक्षा वृत्तिर्यस्य तत् प्रत्यक्षवृत्ति' किम्भूतमक्षसूत्रवलयं चूडाचन्द्रकलानिरन्तरगलत्पीयूपविन्दुश्रिया सन्देहोचितं चूडाचन्द्रकला शेखरीभूता या चन्द्रकला तस्याः सकाशात् निरन्तरं अविच्छिन्नं यथा भवति तथा गलन्तो ये पीयूषविन्दवः तेषां या श्रीः शोभा तया सन्देहोचितं अतिशुभ्रत्त्वात् तदनुरूपं तत्सदृशाकारमित्यर्थः ॥ १४ ॥
अथेदानी भगवत्या वामभुजध्यानमाहबद्ध्वा स्वस्तिकमासनं सितरुचिच्छेदावदातच्छवि
श्रेणीश्रीसुभगं भविष्णु सततं व्याजम्भमाणेऽम्बुजे । दीव्यन्तीमधिवासजानुरुचिरं न्यस्तेन हस्तेन तां
नित्यं पुस्तकधारणप्रणयिनों मेवे गिरामीश्वरीम् ॥ १५ ॥ वध्वेति-अहं नित्यं निरंतरं गिरामीश्वरी सेवे समाराधयामि', किम्भूतां गिरामीश्वरी हस्तेल पुस्तकधारणप्रणयिनी हस्तेन पाणिना पुस्तकधारणे प्रणयः स्नेहो यस्याः सा.. तथा ताम् । किम्भूतेन हस्तेन (अधि) वामजानु रुचिरं न्यस्तेन आरोपितेन किं कृत्वा ... स्वस्तिकं स्वस्तिकसंज्ञं आसनं वद्ध्वा, किम्भृतमासनं सितरुचिच्छेदावदातच्छविश्रीसुभगं .. सितरुचेः स्फटिकादेः यः छेदः भङ्गः तस्य या अवदातच्छविः उज्ज्वलता, तस्याः या श्रेणी तस्याः या श्रीः शोभा तया सुभगं मनोहरं, पुनः किम्भूतं भविष्णु भवनशीलं पुनः किम्भूतां गिरामीश्वरी सततं व्याजृम्भमाणेऽम्बुजे अधिदीव्यन्ती अधिकशोभायुक्ताम् ॥ १५ ।।
अथेदानी भगवत्या ध्यानस्य विशिष्टफलमाहतन्मे विश्वपथीनपीनविलसन्निःसीमसारस्वत
स्रोतोवीचिविचित्रभङ्गिसुभगा विभ्राजतां भारती। यामाकर्ण्य विघूर्णमानमनसः प्रेढोलितैौलिभि
मौलद्भिनयनाञ्चलैः सुमनसो निन्देयुरिन्दोकलाम् ॥१६॥ १. ख. तत् तथा। २. ल. तत् सशमित्यर्थः। ३. ख. व्याजृम्भमाणे भुजे । ४. ग. वाचामधिदेवतां वागीश्वरी । ५. स. सम्यक् आराधयामि । ६. ख. श्रेणी । ७. ख. उज्ज्वलतरकान्तिः ग. उज्ज्वलतरकान्तिपंक्तिः। ८. ख. दीव्यंतीं। ६. ख. तद् युक्तां। १०. ख. ग. परमेश्वर्याः । ११. ग. कलाः ।