________________
[ १३
- प्रबोधिनीटीकासहितम् तन्म इति-हे मातः तत् एवंविधात् तब ध्यानात्' मे मम भारती विभ्राजतां शोभतां, किम्भूता भारती विश्वपथीनपीनविलसन्निस्सीमसारस्वतस्रोतोवीचिविचित्रभङ्गिसुभगा विश्वपथं व्याप्नोतीति विश्वपथीनं यत् सर्वव्यापकं पीनं प्रौढ़ विलसत् क्रीडायुक्तं निस्सीमं सीमारहितं यत् सरस्वत्याः इदं सारस्वतं स्रोत: प्रवाहः तस्य वीचीनां याश्चित्रा भङ्गयः शोभाः तद्वत् सुभगा मनोहरा । यां भारतीमाकर्ण्य सुमनसो देवाः विद्वांसों वा इन्दोश्चन्द्रस्य कलां निन्देयुः । किम्भूताः सुमनसः विघूर्णमानमनसः विपूर्णमानानि मनांसि येषां ते तथा, कैः' नयनाश्चलैः मीलद्भिः अपरं कैः कृत्वा मौलिभिर्मस्तकैः किम्भूतैः तैःप्रेडखोलितैः चापलितैः अवधूनितरित्यर्थः ।। १६ ।।
__ अथेदानी परमेश्वर्या बीजत्रयस्य प्रकारान्तरेण जपविधानमाहआदौ वाग्भवमिन्दुबिन्दुमधुरं झान्ते च कामात्मकं
__ योगान्ते कषयोस्तृतीयमितिं ते बीजत्रयं ध्यायता। साई मातकया विलोमविषम संधाय बन्धच्छिदा
वाचान्तर्गतया महेश्वरि मयां मात्राशतं जप्यते ।। १७ ।। आदाविति-हे जननि ! हे महेश्वरि ! अन्तर्गतया वाचा मया मात्राशतं जप्यते । किम्भूतेन मया इति अमुना प्रकारेण वीजत्रयं विलोमविषम यथा भवति तथा मातृकया सह सन्धाय अनुवध्य ध्यायता चिन्तयता, इतीति किं आदौ अकारादौ इन्दुविन्दुमधुरं
इन्दुश्चन्द्रकला बिन्दुरनुस्वारस्ताभ्यां मनोहरं ताभ्यां सहितं वाग्भवं बीजं ऐं इत्यर्थः, .: च पुनः झान्ते झकारान्ते कामात्मकं क्लींकारं तदनु कषयोर्योगान्ते क्षकारस्यान्ते
तृतीयं शक्तिबीजं सौरिति तद्यथा ऐं अं अां ई ई ऊ ऋ ऋ लं लूं ए ऐ ओं औं अं अः क ख ग घ ङ च छ ज झ क्लीं बंट ठ ड ढ णं तं थं दं धं नं पं फं बंभ मं यं रं लं वं शं पं हं हं हं सौंः । प्रतिलोमतो यथा सौंः क्षं ळं हं सं पं शं वं लं रं
यं मं भं फंपंनं धंदं थं तं णं ढंड टं टं क्लीं मंजं छंचं डंधं गं खं कं . अंः अं औं ओं ऐं एं लंलं ऋ ऋ ऊ उं ई ई आं अं ऐं । पुनः किं भूतेन मया
बन्धच्छिदा वन्धः संसारः तं छिनत्तीति बन्धच्छित तेन तत् तथा ॥ १७ ॥
..... १. ख. एवं विधोत्तमध्यानात् । २. ख. विचित्रा। ३. 'खौं पुस्तके नास्ति ।
१. पाल्हादकराणि हर्षकराणि इति 'ग' पुस्तके विशेषः । ५. ख. तैः । ६. ग. चालितः, ७. ख. ग. भगवत्याः । ८. ख. ग, विषयं । ६. ख. विषयं । १०. ख. लींकाररूपं ।