________________
प्रबोधिनीटीकासहितम्
दीर्घान्दोलित मौलिकीलितमणिप्रारब्धनीराजनै
धीरैः पीतरसा निरन्तरमसौ वारजृम्भतामद्भुता ।। १३ ।।
वाणीति-हे मातः सर्वेश्वरि' तेन कारणेन मे मम सौ अद्भुता वाक् निरन्तरं सततं उज्जृम्भतां प्रसरतु, कथं येन कारणेन इदं वाणीबीजं ऐंकाररूपं श्राधारचक्र अहं जपामि । ततोऽपि कामराजं क्लींकाररूपं हृदये जपामि । ततः सान्तपरं स एव अन्तः अन्तभूतः पर उत्कृष्टो यस्य तत् सान्तपरं । पुनः किम्भूतं विसर्गसहितौ कारोत्तरं विसर्गेण सहितं कारोत्तरो यस्य तत विसर्गसहितौकारोत्तरं सौं इति शक्तिवीजं ब्रह्मरन्ध्रेणैव जपामि अथवा सान्तपरमित्यत्र वीजविशेषाधाने क्रियमाणे हि एवं * समासघटना | अन्तःशब्देनात्र हकारो लभ्यते सकारानुषङ्गित्वात् अत्र तावत् इकारात् परः सकारः अन्तात् हकारान्तात् परोऽग्रे यस्य वीजस्य तत्सान्तपरं विसर्गसहितौ - कारोत्तरं । ह्सौरिति रूपं शक्तिबीजं वा । किं विशिष्टा वाक् धीरैः पीतरसा बुधैरास्वादितरसा किम्भूतैः धीरैः दीर्घान्दोलितमौलि कीलितमणिप्रारब्ध नीराजनैः दीर्घं यथा भवति तथा आन्दोलितेषु मौलिषु कीलिताः आरोपिताः मणयः तैरेव आधा नीराजनायैः ते तथा तैः । किम्भूतं वीजत्रयं परमं उत्कृष्टा मा शोभा यस्य तत्परमं अथवा परायाः पराभिधायाः वाण्याः मा शोभा यस्य तत्परममिति वाणीवीजविशेषणमेव ॥ १३ ॥
अथ भगवत्याः सफलं दक्षिणभुजध्यानमाह
[११
चूडाचन्द्रकलानिरन्तरग लत्पीयूषविन्दुश्रिया
सन्देहोचितमच सूत्रवलयं या विभ्रती निर्भरम् | अन्तर्मन्त्रमयं स्वमेव जपसि प्रत्यक्षवृत्त्यक्षरं
सा त्वं दक्षिणपाणिनाम्ब वितर श्रेयांसि भूयांसि मे || १४ |
चूडेति - हे श्रम्ब ! सा त्वं उक्तरूपा दक्षिणपाणिना भूयांसि श्रेयांसि वितर उत्पादय । या त्वं निर्भरं सुन्दरं स्फटिकमणिसंभूतं सूत्रवलयं विभ्रती सती अन्तर्मध्ये स्वमेव आत्मीयमेव मन्त्रमयं अक्षरं जपसि, किं लक्षणमक्षरं प्रत्यक्षवृत्ति अक्षं क्षं प्रति
१. ग. सकलेश्वरि । २. ख यथा सौरिति । ३. ग. ४. ख. सा. एवं समासंघटना | ५. ख. ग. परोत्कृष्टा । ख. देहीत्यर्थः । ८. ख. स्फटिकमणिसदृशं धृतं ।
बीजविशेषोपधाने ।
६. ख. मे मह्यं इति विशेषः ।
६. ख. किम्भूतमक्षरं ।