________________
८]
भुवनेश्वरीमहास्तोत्रम्
पीयूषलहरी तेनाकुलं यत् चक्राकारत्वात् चक्रं पत्रसमूहः तस्य यः चक्रमचमत्कारी विलोकन चमत्करणं तेन लोकोत्तरां अनिर्वचनीयाम् ॥ ८ ॥
इदानीं परमेश्वर्या आराधनेन फलमाह -
सोऽहं त्वत्करुणाकटाक्षशरणः पञ्चाध्वसंचारतः प्रत्याहृत्य मनो वसामि रसना रङ्गं समालिङ्गतु । श्रीसर्वज्ञविभूषणीकृतकलानिष्यन्दमानामृत
स्वच्छन्दस्फटिकाद्रिसान्द्रितपयः शोभावती भारती ॥ ६ ॥
सोऽहमिति - हे मातः सोऽहं तब सेवकः त्वत्करुणाकटाक्षशरणः सन् तब दयापाङ्ग वीक्षणशरणः सन् वसामि तिष्ठामि किं कृत्वा मनः चित्तं प्रत्याहृत्य ( निर्वर्त्य ) कस्मात् पञ्चाध्वसंचारतः प्राणादीनां पञ्चानामपि वायूनां पञ्चाध्वसंचारणात् पञ्चमार्गसंक्रमणात् । यत्र च वातसंचरणं तत्र तत्र मनः संचरणमपि श्रूयते अथवा पश्चानां raati मार्गाणां गाणपत्य 'वैष्णवसौरशाक्तिक 'शाम्भवानां संचारतः संचरणात् मनो निर्वर्त्य यतः त्वयि एव वसामि श्रतः कारणात् भारती अमररसना रङ्ग आलिङ्गतु श्राश्रयतु । किम्भूता भारती श्रीसर्वज्ञविभृपणीकृतकलानिष्यन्दमानामृतस्वच्छन्दस्फटिकाद्रिसान्द्रितपयः शोभावती सकलदेवतावरिष्टत्त्वात् श्रीशब्दस्य प्राक् प्रयोगः । श्रीसर्वज्ञो महेशः तस्य या विभूषणीकृतकला ततो निष्यन्दमानं निस्सरत् यदमृतं पीयूषं च स्वच्छन्दो निराश्रयो निर्मलो यः स्फटिकाद्रिः स च ताभ्यां सान्द्रितं बहुलीकृतं यत्पयो दुग्धं एतेपामेकत्र करणे यादृशी शोभा भा भवति तादृश्येव विद्यते यस्याः सा तथा अथवा श्रीसर्वज्ञस्य महेश्वरस्य विभूषणीकृत कलायाः चन्द्रकलायाः निष्यन्दमानामृतेन स्वच्छन्दस्फटिकाद्रेः निर्मलस्फटिकपर्वतस्य सान्द्रितं बहुलीकृतं यत्पयो नीरं तद्वत् शोभा यस्याः सा तथा युक्तोऽयमर्थः । यतश्चन्द्रकिरणाः पीयूपं वर्षन्ति" तदर्शनेन च स्फटिकाद्रिद्रवति तदुभयमेकीभूय तद्वत् शोभते तवत् सेति पिण्डितार्थः ॥ ६ ॥
9
१०
१. ख. चिलोमजं चमत्करणं; ग. विलोपनचमरकरणं । २. ख. ग. दयालुता ! ३. ग. श्रात्मनां । ४. ख. तस्मात् । २. ख. गणपति | ७. ख. मनोनिष्ठवायुः । ८. ख, ग, सरस्वती सम रसना । १०. रा. चन्द्रकला । ११. यतश्चन्द्रकिरणानां पीयूषं वर्तते ।
६. ख. शाक्त 1
६. ख. महेश्वरः