________________
प्रबोधिनीटीकासहितम्
इदानीं भगवत्या बीजजपस्य प्रकारान्तरमाह
मातर्मातृकया विदर्भितमिदं गंभीकृतानाहतस्वच्छन्दध्वनि पेय मध्वनि रतं चन्द्रार्कनिद्रागिरी । संसेवे विपरीत रीतिरचनोच्चारादकारावधि
स्वाधीनामृतसिन्धुबन्धुरमहो मायामयं ते महः ॥ १० ॥
3
मातरिति - अहो इति सम्बोधने हे मातः ते तव इदं मायामयं महो ज्योतिः संसेवे सम्यगाराधयामि । किम्भूतं मायामयं महः गर्मीकृतानाहतस्वच्छन्दध्वनिपेयं गर्भीकृत इति श्रगर्भो गर्भः कृतः इति गर्मीकृतः यः अनाहतध्वनिः अनाहतः स्वेच्छयोत्पन्नोऽनाहतः तेन पेयं, दृश्यं पुनः किम्भूतं मायामयं चन्द्रार्कनिद्रागिरौ अध्वनि रतं चन्द्रार्कयोः श्वासोच्छ्वास योर्निद्राविगतव्यापारः तस्यागिरिरिव गिरिः तस्मिन् चन्द्रार्कनिद्रागिरौ एव अध्वनि स्वाधिष्ठान चक्रे रतं श्राश्रितं पुनः किम्भूतं मायामयं महः मातृकया विदर्भितं मातृकया च गुम्फित यथा ऐं ह्रीं श्रं ऐं ह्रीं श्र इत्यादि" क्षपर्यन्तं ज्ञेयं, अपरं किम्भूतं मायामयं महः स्वाधीनामृतसिंधुबंधुरं स्वाधीनः स्वस्य वश्यः यः अमृतसिन्धुः सागरः तद्वत् बन्धुरं मनोहरं अभिमतफलदमित्यर्थः । पुनः किंविशिष्टं विपरीतरीतिरचनोच्चार दकारवधि विपरीते रीतिरचनाया मातृकाया उच्चारणात् अकारावधि यथा ऐं ह्रीं क्षं ऐं ह्रीं हूं ऐं ह्रीं यं इत्यकारावधि स्वयमूहनीयम् ||१०||
अदानी परमेश्वर्या बीजाराधनेन यत्फलं भवति तदाहतस्मान्नन्दनचारुचन्दन तरुच्छायासु पुष्पासवखैरास्वादन मोदमानमनसा मुद्दामवामभ्रुवाम् | वीणा भङ्गितरङ्गितस्वरचमत्कारोपि सारोज्झितो
[ &
२
येन स्पादिह देहि मे तदभितः संचारि सारस्वतम् ॥ ११ ॥ : तस्मादिति - हे मातः तस्मात् तव महसः' सेवनात् ' इह अस्मिन् लोके मह्यं सारस्वतं " देह समर्पय । किम्भूतं अभितः संचारि सर्वतः प्रसरणशीलं अपि निश्चितं
1
ग. ध्यायामि । २. ख. ग. स्वच्छन्दध्वनिः । ३. ख. ग. अनाहतः स्वेच्छयोत्पन्नो नादः । ४. ग. मातृकयाऽवगुम्फितं | ५. ख. ऐं ह्रीं हूं ऐं ह्रीं ई इत्यादि ।
६. ख. विपरीतरीतिरचनायाम्, ग, विपरीतिरिति रचनाया मातृकायाः ।
ख. ऐं ह्रीं क्षं ऐं ह्रीं हं ऐं ह्रीं सं ऐं ह्रीं पं ऐं ह्रीं शं इत्यकारावधि स्वयमूहनीयम् ।
खः महः । ६. ख. संसेवनात्; ग. सेवनाविहारि सल्लोके । १०. ख. महासारस्वतम् ।