________________
'प्रबोधिनीटीकासहितम्
[७ .. तस्य दहने विदारणे क्रीडया लीलया कठोराः, पुनः किम्भूताः कारुण्यामृतकोमलाः
। कारुण्यं करुणा तदेवाऽमृतं तेन कोमलाः । पुनः सिध्यूर्जिताः सिद्ध्या ऊर्जिताः - प्रेरिताः, किम्भूतां गिरं स्वाभिमतप्रवन्धलहरीसाकूतकौतूहलाभ्रान्तस्वान्तचतुर्मुखो..चितगुणोद्गारां स्वस्य आत्मन अभिमत अभिलषितो यः प्रवन्धो गद्यपद्यादिः
तस्य या लहरी स्फुरणा तस्याः यत् साकूतकौतूहलं साभिप्रायकौतुकं तत्र आभ्रान्तं श्लिष्टं शुचि यत् स्वान्तं मनः तेन चतुर्मुखस्येव ब्रह्मण इव उचितः सदृशो गुणानामुद्गारो यस्याः सा तथा ताम् ।। ७ ।।
इदानीं भगवत्याः यजलविधानमाहत्वामाधारचतुर्द लाम्बुजगतां वाग्बीजगर्भे यजे
प्रत्यावृत्तिभिरादिभिः कुसुमितां मायाललामुन्नताम् । चूडामूलपवित्रपत्रकमलप्रेढोलखेलत्सुधा
कल्लोलाकुलचक्रचङ्क्रमचमत्कारैकलोकोत्तराम् ।। ८ ॥ त्वामिति-हे जननि ! त्वां वाग्बीजगर्भे ऐंकारमध्ये मायालतां ह्रींकारवल्ली यजे पूजयामि किम्भूतां मायालतां आधारचतुर्दलाम्बुजगतां आधारचक्रमेव चतुर्दलाम्बुजं चतुर्दलकमलं तत्रगतां स्थितां', पुनः किम्भूतां उन्नता पुनः किम्भूतां श्रादिभिरकारादिभिर्वणः कुसुमितां पुष्पिता अन्यापि लता उन्नता सती पुष्पिता भवति । किम्भूतैः आदिभिः प्रत्यावृत्तिभिः एक एक प्रति आसमन्ताद भावेन वृत्तिवर्त्तनं येषां ते प्रत्यावृत्तयस्तैस्तथा । अथवा प्रादिभिरकारादिभिः क्षपर्यन्तैः प्रत्यावृत्तिभिः लोमप्रतिलोमभिर्वणः कुसुमितां परमशोभान्वितामित्यर्थः । यथा ह्रीं अं ह्रीं श्रां इत्येवमादयः क्षपर्यन्ता'" वर्णाः स्वयमूहनीयाः । प्रतिलोमतो यथा ह्रीं क्षं ही लं ही सं इत्यादि, पुनः किम्भूतां मायालतां चूडामूलपवित्रपत्रकमलप्रेढोलखेलत्सुधाकल्लोलाकुलचक्रचक्रसचमत्कारैकलोकोत्तरां चूडामूले ब्रह्मरन्ध्रे यत् पवित्रपत्रकमलं विमलसहस्रदलपङ्कजं तत्र यः प्रेढोलखेलसुधाकल्लोलः चपलतरं खेलन्ती
.१. ख. पीयूपं । . २. ख, ग, मृदुलाः । ३. ख. ग. तव अाराधनेन । ४. स: ग. हे सुरेश्वरि श्राभि ग्भिरहं गिरं वाणी करिष्ये वाचं प्रकटयिष्यामि । ५. ख. ग. गद्यपधादिमयः। ६. ग. श्राकान्तं । ७. ग. उद्वमनं धनप्रकटनं यन्न ८. ख: ग. संस्थितां । ..ख. ग. उच्चैर्गतां। १०. ख. सपर्यन्ताः ।