________________
६ ]
भुवनेश्वरीमहास्तोत्रम्
ततः पट्कोणं विधाय तस्यानु पश्चादिनं अष्टप्रहरमानतया' अष्टदल कमलमिति संकेतितं भवति ततो वाङ्मयं वीजं चन्द्रकलानुस्वारसहितं तन्मध्ये विलिखेदिति यन्त्रोद्धारविधिः || ५ ॥
अथेदानीं परमेश्वर्या ध्यानमाहलेख प्रस्तुतवेद्यवस्तुसुरभिश्रीपुस्तकोत्तंसितो
मातः स्वस्तिकृदस्तु मे तब करो वामोऽभिरामः श्रिया । सद्यो विद्रुमकन्दली सरलतासन्दोहसान्द्राऽङ्गुलि- '
मुद्रां बोधमयीं दधत् तदपरोप्यास्तामपास्तभ्रमः ॥ ६ ॥
लेखेति - हे मातः तव वामकरो मे मम स्वस्तिकृदस्तु शुभकरो" भवतु । किम्भूतो चामकरः लेखप्रस्तुतवेद्यवस्तुसुरभिश्रीपुस्तकोत्तंसितः लेखेन यत्प्रस्तुतवेद्यं प्रस्तुतज्ञाप्यं वस्तु तत्प्रतिपादकं सुरभिश्रिया मनोहरकान्त्या सहितं यत्पुस्तकं तेनोत्तंसितों मण्डितः । पुनः किम्भूतः श्रिया अभिरामः शोभया मनोहरः तदपरो दक्षिणकरः सद्यस्तत्कालमेव मे मम अपास्तभ्रमः आस्तां निराकृतभ्रान्तिर्भवतु । किं कुर्वन् बोधमय मुद्रां दधत् । पुनः किम्भूतः विद्रुमकन्दलीसन्दोहसान्द्रांगुलिः विद्रुमकंन्दल्याः प्रवाललतायाः सरलतासंदोहः प्राञ्जलता विलासस्तद्वत् सान्द्रा मनोहरा" गुलयो यस्य सः तथा इति द्वयोरपि विशेषणम् || ६ ||
99
अथ भगवत्याः कृपाभववीक्षणेन प्रार्थन्नाह"
मातः पातकजालमूलदलनक्रीडाकठोरा दृशः
कारुण्या मृत कोमलास्तव मयि स्फूर्जन्तु सिद्ध्यूर्जिताः । श्रभिः स्वाभिमतप्रबन्धलहरीसाकूत कौतूहला
भ्रान्तखान्तचतुर्मुखोचितगुणोद्गारां करिष्ये गिरम् ||७||
मातरिति - हे मातः तव दृशो दृष्टयो मयि (मम) विषये स्फूर्जन्तु उल्लसन्तु । किम्भूताःदृशः पातकजालमूलदलनक्रीडा कठोराः पातकानां जालं समूहः तस्य मूलं कन्दः
१. ग. श्रष्टप्रहरमापाततया । २. ख, संभवति ।
३. ख. वाग्भवं ।
४. ख.
सान्द्राऽगुली । ५. ग. शुभकारको । ६. ख. यत्प्रस्तुतं वेद्य ज्ञाप्यं । ७. ख तेन यत्तुरभिः सौगन्ध्यं तद्रूपा या श्रीस्तया । ८. ग. सहितः ।
६. ख. शोभामनोहरः । १०. ख. प्राञ्जलिविलासरतेन सान्द्राः संहता अंगुलयो । ११. ख, ग, कृपाभरवीक्षणं संप्रार्थयन्नाह । १२. ग. कौतूहलाऽक्रान्तः ।