________________
प्रबोधिनीटीकासहितम् इति चानेकार्थश्रवणात् । पुनः किंविधा पराभिधा भासां हि तासां पदं, हि निश्चितं तत् तासां प्रसिद्धानां भासां दीप्तीनां पदं स्थानं ततः पराभिधायाः पश्यंती वाक् विहरति पुनः पश्यंतीमनु पश्चान्मध्यमा वाग् विहरति ततः स्वैरं स्वेच्छया चाष्ट स्थानविशदीकृता सेति' सर्वप्रसिद्धा वैखरी वाग विहरति । अथ च मनोःपक्षे ऐंदव्या कलयावतंसितशिरो इति चन्द्रार्धानुकारि लक्ष्यते । ततः विस्तारि प्रपञ्चो माया यस्याऽस्तीति ततः विस्तारि मायावीजमिति निष्कृष्टार्थः । तदनु नादात्मकं 'नादशब्देनात्र विन्दुरनुस्वारोऽभिधीयते तेन सहितमिति सानुस्वारं हीमिति यावत् ।
अथ वैखर्याः सातिशयं महिमानमुन्मीलयन् अपरवृत्तमाहआदिक्षान्तविलासलालसतया तासां तुरीया तु या
क्रोडीकृत्य जगत्त्रयं विजयते वेदादिविद्यामयी ।
तां वाचं मयि संमसादय सुधाकल्लोलकोलाहल..... क्रीडाकर्णनवर्णनीयकवितासाम्राज्यसिद्धिप्रदाम् ॥ २ ॥
आदीति-हे मातः सकलेश्वरि, तु इति व्यवच्छेदे तासां पूर्वोक्तानां परापश्यन्ती:: मध्यमावैखरीलक्षणानां वाचां मध्ये तुरीया चतुर्थी वाक् वैखरीलक्षणा सा जगत्
त्रयं भुवनत्रितयं क्रोडीकृत्य अभिव्याप्य विजयते सर्वोत्कर्षेण वर्त्तते । कया
कृत्वा आदिक्षान्तविलासलालसतया आदयः अकारादयः क्षान्ताः क्षकारान्ताः ... ये वर्णास्तेषां यो विलासो विलसनं तस्य या लालसता उच्चारणविशेषः तया
आदिक्षांतविलासलालसतया विश्वमखिलमभिव्याप्य वर्तत इत्यर्थः । किम्भूता सा तुरीया ( वैख ) री, वेदादिविद्यामयी वेदादयो या विद्याः ताः स्वरूपं यस्याः सा तथा, हे जननि तां तुरीयां वैखरीं' वाचं मयि विषये सम्प्रसादय सम्यक् प्रसाद विधाय उत्पादय । किम्भूतां वाचं सुधाकल्लोलकोलाहलक्रीडाकर्ण नवर्णनीयकवितासाम्राज्यसिद्धिप्रदां सुधायाः पीयूषस्य ये कल्लोला लहर्यस्तेषां यः कोलाहलः कलरवः तस्य या क्रीडा खेलनं तस्याः यदाकर्णनं तद्वद्वर्णनीया स्तुत्या या कविता तस्याः या साम्राज्यसिद्धिः स्वच्छन्दविहारिणी सिद्धिस्तां प्रकर्षण ददातीति तथा ताम् ॥२॥
१. ख. सती, ग. चेति । २. ख. ग. चन्द्रानुकारि चालिख्यते । ३, ग, च । ४. ख. भुवनत्रयं । ५. ख. वैखरीलक्षणां । ६. ग. स्वच्छन्दा विहारिणां सिद्धिः ।