SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ४] भुवनेश्वरीमहास्तोत्रम् अथेदानीं विशिष्टवाग्भवस्य महिमानमाहकल्पादौ कमलासनोऽपि कलया विद्वः कयाचित् किल त्वां ध्यात्वाऽङ्कुरयाञ्चकार चतुरो वेदाच विद्याथ ताः । तन्मातर्ललिते प्रसीद सरलं सारस्वतं देहि में यस्यामोदमुदीरयन्ति पुलकैरन्तर्गता देवताः ॥ ३ ॥ कल्पादाविति - हे मातः जननि किल इति सत्ये' कल्पादौ सृष्टेरादों कमलासनोपि ब्रह्मापि त्वां ध्यात्वा चतुरो वेदान् पुनश्च ताः विद्याचतुर्दश कुरयाञ्चकार प्रकटीकृतवान् किम्भूतः कमलासनोपि निश्चयेन कयाचित् कलया विद्धः स्यूतः पुनः किम्भूतः वा चतुर इति ब्रह्मणो विशेषणम् । हे मातः ततः कारणात् त्वं प्रसीद प्रसादं कुरु मे मह्यं सरलं सारस्वतं देहि, सश्च रच लक्ष सर्वो द्वन्द्वो विभाषयैकवदिति एतैर्वणैः सहितमिति यावत् अथवा सरलमिति प्राञ्जलं केवलं वाग्भवमेव ऍकाररूपमित्यर्थः । हे ललिते एतन्महिमानं वाग्भवरूपं मनुं मयि प्रसारयेति प्रार्थना | परं हे विश्वेश्वरि यस्य वाग्भवामोदं यस्यामोदमुदीरयन्ति पुल कैरन्तर्गता देवता यस्य वाग्भवस्य आमोदं महिमान अन्तर्मध्ये स्थिता देवता आत्माप्रभृतय उदीरयन्ति कैः पुलकैः रोमाचैरिति यावत् ।। ३ ।। २ थ भगवत्या बीजांतरध्याने फलमाह मातर्देहभृतामहो धृतिमयी नादैकरेखामयी सा त्वं प्राणमयी हुताशनमयी बिन्दुप्रतिष्ठामयी । तेन त्वां भुवनेश्वरी विजयिनीं ध्यायामि जायां विभोः स्त्वत्कारुण्यविकाश (सि) पुण्यमतयः खेलन्तु मे सूक्तयः |४| मातरिति - हों इति सम्बोधने' हे मातः सा त्वं देहभृतां शरीरिणां एवं विधा वक्ष्यमाणलक्षणा वर्त्तसे तेन कारणेन विभोर्महादेवस्य जायां कुटुम्बिनीं भुवनेश्वरीं ध्यायामि । किम्भूतां त्वां विजयिनीं विजयनशीलां श्रत एव मे मम सूक्तयः शोभना वाचःखेलन्तु नवनवगद्यपद्यकरणोद्यमे दोव्यन्तु । किम्भूताः सूक्तयः त्वत्कारुण्य १ ख सत्यं । २. ख. मे मह्यं' सरलं सारस्वतं देहि सरलं अर्थावगममाधुर्यादिगुणविशिष्टं न तु वैपम्याद्युपहतं । ३. ख. सम्बोधनं । ४ ख विभोः श्रीमहादेवस्य । २. ख. नवनवाः गद्यपद्यमय्यः मे सूक्तयः खेलन्तु विलसन्त्वित्यर्थः, नवनंवगद्यपद्यसद्यःकरणोद्यमा ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy