________________
२]
भुवनेश्वरीमहास्तोत्रम् भिसनाथयन्तीमिव' चरणरणन्मणिमयमञ्जीरा बररशनोल्लसत्किङ्किणीकुलक्काणकलितां पिच्छलां नावस्थितोदकविम्बवदवभासमाना ममलमुक्ताफलप्रकरहारविभूपितपीनोन्नतपयोधरां नवमधुककुसुमसुषमातिरस्कारकारिकरचरणकपोलयुगलप्रतिविम्बितचारुचामीकरकुण्डला चञ्चच्चन्द्रकलाक्तसितशिरोदेशां स्फुरन्महामौलिमाणिक्यविराजमानां भुवनेशामभिवन्द्य सकलागमाचार्यचक्रवर्तिपृथ्वीधराचार्यविरचितमहास्तोत्रस्य यथाचाई वालप्रबोधिनी सकल विमलपददीपिका टीकां विरचयामीति" ।। ऐंदव्या कलयावतंसितशिरो विस्तारि नादात्मकं
तद्रूपं जननि स्मरामि परमं सन्मानमेकं तव। यत्रोदेति पराभिधा भगवती भासां हि तासां पदं
पश्यन्तीमनुमध्यमा विहरति खैरं च सा वैखरी ॥१॥ ऐंदव्येति-हे जननि तव तत् रूपं स्मरामि अहरहो ध्यायामि, किम्भूतं तव तद्रूपं अवतसितशिरः अवतसितं शेखरीकृतं शिरो सूर्दा यस्य तत् तथा । कया इन्दोरियं ऐंदवी तया ऐंदव्या कलया । पुनः किम्भूतं तव रूपं, विस्तारि विस्तारोऽ- . स्यास्तीति विस्तारि सर्वव्यापकमित्यर्थः । पुनः किम्भूतं नादात्मकं नादस्वरूप, उच्चारणकाले नादवत् । पुनः किम्भूतं परमं परा उत्कृष्टा मा शोभा यस्य तत् परमं । प्रकृष्टमित्यर्थः । पुनः किम्भूतं सन्मानं सदभावरूपमिति यावत् । अपरं किम्भूतं ... एक अद्वितीयम् । हे विश्वेश्वरि यत्र यस्मिन् तव रूपे पराभिधा परासंज्ञा वाणी.. उदेति उदयं प्रामोति किम्भूता वाणी" भगवती षडैश्वर्यज्ञानवती भगोर्कज्ञानमाहात्म्य
१. ख. संनाथयमानामिव । २. ख. चरणरणन्मणिमयमञ्जीरादिकसकलचरणाभरण___ मण्डितां । ग. रणन्मणिमयमञ्जीरादिचरणाभरणमण्डितां । .... ३. ख. पिप्पलदलान्तावस्थितोदकबिन्दुवदवभासमानां । ग. पिच्छिल.... भासमानां। ४. ख. नववन्धूककुसुमसुपमातिरस्करी कलरवकपोतयुगलप्रतिविम्बितचारुचामीकरकुण्डलां। ....
ग. नववन्धूककुसुमनिकुरम्वतिरस्कारकारिवरकपोलयुगलप्रतिविम्बितचारुचामीकरकुण्डलां। ५. ख. ग. भुवनेशानीमभिवन्द्य । ६. ख. यथामति । ७. ख. प्रतिजानीते पदानाभपण्डितष्टीकाकारः । ८. ग. चिन्मानं । १. ख. श्रहं रहो। १०. ग. इन्दुसम्बन्धिन्या । : ... ११. ग. सन्मानं सत्तामात्रं नादात्मकं उच्चारणकाले नादवत् । १२. ग, परममुस्कृष्टमित्यर्थः । १३. ख. हे जननि । १४. ग. तत संज्ञा । १५. १६. ग. भगोर्कः भगो ज्ञानमित्यनेकार्थदर्शनात् ।