________________
श्रीः
सकलागमाचार्यचक्रवर्त्तिश्री पृथ्वीधराचार्यविरचितम्
भुवनेश्वरीमहास्तोत्रम् कविपद्मनाभविरचितभाष्यविभूषितम्
श्रीगणेशाय नमः
ॐ चञ्चन्मौक्तिक हेममण्डनयुता माताऽतिरक्ताम्बरा तन्वङ्गी नयनत्रयातिरुचिरा बालार्कवद्भासुरा । या दिव्याङ्कुशपाशभूषितकरा देवी सदा भीतिहा
चित्तस्था युवनेश्वरी भवतु नः संयं मुदः (दे ) सर्वदा ।। १ ।।
कर्ण स्वर्ण विलोल कुण्डलधरामापी नवक्षोरुहां. मुक्ताहारविभूषणां परिलसद्धम्मिल्लसन्मल्लिकाम् ।
लीलालोलितलोचनां शशिमुखीमाबद्धकाली स्रजं
दीन्यन्तीं भुवनेश्वरीमनुदिनं वन्दामहे मातरम् ॥ २ ॥
अथ सतामुदन्यादि महोर्मिवेलाकुलितस्य सकलेन्द्रियमकरकुण्डलवत् दुरवगाह'स्यानवरतप्रभूतीभवन्मोहमहाभ्रमस्य संसारवारांनिधेः प्रतरणाय सत्पतमिव सकलसम्पदामास्पदमिव यस्याः प्रसादमासाद्य चतुरचतुराननोऽपि सर्गादौ निखिलनिगमागमोदिताच विद्याः" सद्योऽ' कुरयाञ्चकाराम्भोजनाभिमिव सम्भावनोद्यतां कल्पवल्लीमिवाभिमतफलदानदक्षां रुचिरचरणसङ्क्रमणतः करुणया वसुन्धराम
१. पद्यस्यास्य ख. ग. प्रत्योनोपलब्धिः ।
२. ग. सतां देन्यादिमोहोर्मिमालाकुलितस्य । ३. गं. मण्डलचटुलदुरवगाहनस्य । ४. ग. महामोहभ्रमस्य । ५. ख. चतुर्दशविद्याः । ग. निखिल निगमादिविद्याः । ख. ग. तां जननीमिव । ८. ग. संक्रमणया ।
६. ग. समङ्कुरयाञ्चकार ।